पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७१
श्रीभविष्योतरपुराणन्तर्गतरहस्योऽध्यायः


दधिक्षीरघृतैर्दिव्यमूषन्नमधुशर्करैः ।
दिव्यसौरभनैवेयैः षड्रसामृतपायसैः ॥ १३३

दिव्योपचौरैः कल्याणवैभवैः षोडशभिर्युः ।
दिव्यसौरभताम्बूलैः मुक्ताचूर्णविमिश्रितैः ॥ १३४

करवीटिकभिध दिव्यभोगैः सुपूजितम् ।
सर्वान्नभूषणाधिक्यलसकमलया सह ॥ १३५

धूपदीपमहादीपराजन्नीराजनोत्तमैः ।
सुन्दरेश्वभरैस्छनैः व्यजनैर्दपणोत्तमैः ॥ १३६

गीतवादित्रनृत्यैश्च मृदङ्गपटहानकैः ।
वीणावेणुसुतालयैः गोमुखस्त्ररमण्डलैः ॥ १३७

तुर्यभेरीसुशद्ददिव्यघोबैर्दिवौकसाम् ।
सिद्धकिन्नरगन्धर्वाप्सरः किम्पुरुषत्रजैः ॥ १३८

सतुम्बुरुहाहाहूहूनारदादिसुरर्षिभिः । ।
गरुडोरगयक्षाणां विद्याधरविनोदिनाम् ॥ १३९

सनतमधुरालापैः स्कन्दस्तोत्रैः सुतोषितम् ।
शुद्धसत्त्वमयाकारं अपि स्वामिसरस्तटे ॥ १४०

रमन्तं रमया साथै अनन्दकरमानसम् ।
वसन्तममलानन्दं आत्मारामं मुदान्वितम् ॥ १४१

समस्तदेवतावधं सार्वभौमशिखामणिम् ।
कर्तारं सृष्टिकाले च भर्तारं पलने जगत् ॥ १४२

हर्तारं प्रलये कले इंटेश्वरमव्ययम् ।
सर्वदेवनियन्तारं सर्वदेवेश्वरेश्वरम् ॥ १४३

चराचरात्मकं विश्वं रक्षितारं कृपानिधिम् ।
क्रीिडाङ्गदसंराजद्दीर्घबाहुमरिन्दमम् ॥ १४४