पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
श्रीब्रह्मपुराणे सप्तमोऽध्यायः

 नानाविलासभावाभि: रेमे रामाभिरञ्जसा ।
 तं दृष्ट्वा रङ्गदासोऽपि पञ्चबाणशरार्दितः ॥ ३८

 निरीक्ष्य कुञ्जे लीनः सन् रेतः सद्यो विमुक्तवान् ।
 पश्चाद्गतमदो भूत्वा मनसैवातिशङ्कितः ॥ ३९

 तदोपहृतपुष्पाणि विसृज्याधिगतत्रपः ।
 शुद्धिकामो ममज्जाथ स्वामिपुष्करिणीजले ॥ ४०

 पुनराहूय पुष्पाणि तान्यादायाऽलयं ययौ ।
 गोपीनाथोऽपि तं दृष्ट्वा प्राह स्माताम्रलोचनः ॥ ४१

 'पूजाकालो गतः क्वाऽद्य गतोऽसि गतसंस्मृतिः ।
 किं ते विलम्बहेतुस्तु क्वावात्सीः कथ्यता'मिति ॥ ४२

 गोपीनाथेनैवमुक्तो रङ्गदासोऽतिलज्जया
 न प्रत्युवाच तं विप्रं तदाऽवनतकन्धरः ॥ ४३

 पुनः पुनः कृते प्रश्ने तस्मिंस्तूष्णीं स्थितेऽपि च ।
 आकाशवाणी तं प्राह "शृणु शूद्रे" ति सादरम् ॥ ४४

 "कामेन व्याकुलं चित्तं नैव स्वास्थ्यं गमिष्यति !
 अस्वस्थचित्तो न क्वाऽपि सिद्धिमेति न संशयः ॥ ४५

 तस्माद्विमुज्य कायं त्वं व्रज देहान्तरं शुभम् ।
 तस्मिन् नृपोत्तमो भूत्वा जीर्णमेतं ममाऽलयम् ॥ ४६

 गोपुराद्यैः शुभैः पूर्णं मण्डपैरद्भुतैरपि ।
 शोभमानं नवं कुर्याः तेन ते भविता गतिः ॥ ४७

 तदा नारीसहस्राणि भोक्ष्यसे त्वं न संशयः ।
 भुक्त्वा भोगाननेकांश्च मत्पादऽसक्तचेतसः ॥ ४८

 तस्मिन् जन्मनि ते शत्रुपीडा चैव भविष्यति ।
 तदा तव जयार्थाय चक्रशङ्खौ जयावहौ ॥ ४९