विविच्य सर्वराश्यश्च वक्रमान्तीर्य देवराट्।
ययाचे धाडश भागं राजानं राजनन्दनम् ॥ १२४
भवद्भिस्तु रणं कृत्वा वृथा मरणमिच्छतः।
दातव्यो राज्यभागस्तु मम वा दुहितुस्तु वा। ॥ १२५
इत्येवं श्रीनिवासेन पृष्टै राजनृपात्मजौ ।
ददतुस्तौ महNराज! प्रामन् द्वात्रिंशनं हरेः ॥ १२६
तोण्डमनं प्रतिष्ठप्य तोण्डराज्ये तदाहरिः।
विष्वक्सेनं प्रतिष्ठाप्य नारायणपुरे नृपः ॥ १२७
तद्गृहं भजन कृत्वा यलय गृहं तथा ।
भुक्ता स्वयं भोजयिचा पश्न ययनुगो यथैौ ॥ १२८
अगस्त्यनिलयं राजन्! श्रीनिवासः सतां गतिः।
मुमुदे रमया साथै भगवान् शुभदशेनः ॥ १२९
य इद पुष्यमस्यान शृणुयात् श्रावयेच्च यः ।
श्रीनिवासप्रसादत् सः सर्वमङ्गलमन् भवेत् । ॥ १३०
इति श्रीभविष्यतपुराणे श्रीवेङ्कटाचलमाहभस्ये तोण्डमानवसूदन
युद्धसन्धिप्रशंसनं नाम द्वादशोऽध्यायः।
अथ त्रयोबशोऽध्यायः।
तोण्डमनिकृतदिव्यस्वरूपज्ञानपूर्वकश्रीनिधामस्तुतिः
जनकः
ततः किमकरोत् कृष्णः शतानन्द ! नृपश्च वा।
तन्ममाचक्ष्व योगीन्द्र! राज्ञस्तच्चरितं महत् ॥ १
शतानन्दः कदाचिद्वेङ्कटेशस्य दर्शनार्थ नराधिपः ।
एक एवाधिगम्याथ ननाम चरणौ हरेः ॥ २