पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१७
श्रीभविष्यपुराणे द्वादशोऽध्यायः


प्रलपन् पुनरप्याह लोकानिथ विडधयन् ।
कलेवरं कथं दास्याम्यनये लोकमोहनम् ॥ २३

एतदर्थं स्वपुत्रं मे दवा मृतिमवाप्स्यसि ।
श्रीनिवास ! न गच्छेति पूर्वमेव त्वयोदितम् ॥ २४

उक्तं हितं मया तत न श्रुतं ते महीपते ।
न तृप्त नेत्रयुगल ३५ व'मुखपङ्कजम् ॥ २५

तोण्डमान् मण्डल धीशो वसुधायां महमते !।
का गतिर्मम राजेन्द्र! को वार्ता क भविष्यति ! ॥ २६

विलोकय महाराज ! माझ पद्मावतीं तथा'
मनि ने 'जामातIऽय समायातः पचया समन्वितः ॥ २७

बहिर्गच्छ पुरेव व समानयनकरणात् ।
भोजनं दीयतां तस्य जामातु: परितोषकम ॥ २८

गजानश्चन् महाराज! वाणीच्छति ते सुतः।
तां ददत्र महाराज ! प्रीतये मधुघातिनः ॥ २९

इत्यगस्येन वै राज्ञि गांधतऽप्यप्रबधन ।
विललाप महारज्ञ। भगवान् लैकिकैः समः॥ ३०

तदद्रं कर्म चकार देवो
विडम्बयन् सवजन जगत्पतिः ।
यथा। कुरूणां रणरङ्गमध्ये
कथं हते धर्मराजश्चकार ॥ ३१

एवं स्दति गोविन्दे राजाऽऽकाशश्त्रसन् नृप!।
किञ्चित्संज्ञायुतो भूत्वा वसुदेवमभाषत ॥ ३२

राजा- ( पुत्रं सभ्रातरं नहि श्रीनिवास ! नरामय !।
इत्युक्त्वा भूपती रजन् ! करे कृष्णस्य ता ददौ ॥ ३३

47