पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४३१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४१५
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः


पप्रच्छ कुशलतञ्च राज्ञः तस्य पितुस्तथा ।
'कुशली वर्तते चार। जनको जननी मम ?॥ ५

तोण्डमान् राजशार्दूलः कुशली वर्तते बली ।
राज्ञः प्रकृतयः सर्वाः वर्तन्ते क्षेमसंयुताः ? ॥ ६

एवमुक्तस्तदा दूतो दु खसन्दिग्धलोचनः ।
उवाच दीनया वाच। राजपुत्री निदेशतः ॥ ७

सूतः- 'किं वदिष्यामि हे मातः! पितुते काल आगतः।
मरणभिमुखो भूत्वा किञ्चिज्जीवसमन्वितः ॥ ८

वां द्रष्टुकामो राजेद्रः श्रीनिवासं सुहृतम् ।
नय शीघ्र पनि भद्रे! राजधानीं पितुस्तु ते '॥ ९

साऽपि दूतवचः श्रुत्रपपात गत चेतना।
अगस्यभार्या तां बलां उथाप्य कमलालयाम् ॥ १०

श्रीनिवासन्तिकं निन्ये राजपुत्री पितृप्रियाम् ।
तद्वार्तामवदद्देवी श्रीनिवासाय विष्णवे ।
तङ्कवा वासुदेवस्तु नरो नरसत्तम ॥ ११

श्रीनिवासः

अहो बत महत्कष्टं सम्प्राप्तं मम भामिनि!।
किं करोमि क गच्छामि ? ब्रूहि त्वं पझसम्भवे ! ! ।
इत्येवमुक्ता तां देवीं अब्रवीत् कुम्भसम्भवम् ॥ १२

वियन्नृपविलोकनाय अगस्त्येन सह श्रीनिघपगमनम्

अगस्त्य मुनिशार्दूल! गच्छामि नगरं प्रति ।
पद्मावत्या सहावैव सार्ध चक्रमालया ॥ १३