पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४११

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३९५
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


यथाऽऽकाशे चन्द्रबिम्बं नक्षत्रगणमण्डले ।

श्रीनिवासवियन्नृषद्मावतीनां परस्परावलोकनम्

राजा ददर्श गोविन्दं शक्रेण परिदर्शितम् ॥ २५५

गरुडस्कन्धमारूढं श्वेतच्छत्रादिभर्युतम् ।
सुकुमारं युवानच सुन्दरं सुन्दराननम् ॥ २४६

श्रीनिवासं जगद्योनिं सच्चिदानन्दविग्रहम् ।
दृष्ट्वा सन्तुष्टमनसा स रथादवरुह्य च ॥ २४७

पद्मावतीं स्वपुत्रीञ्च निधाय पुरतो नृपः ।
पुरोहितं पुरस्कृत्य चेदं वचनमब्रवीत् ॥ २४८

आकाशराजः -

धन्योऽहं कृतकृत्योऽहं स्वर्गमार्गं समास्थितः ।
एवं वदन्तं तकाले श्रीनिवासः सतां गतिः ॥ २४९

ददर्श राजशार्दूलै नारदेन प्रदर्शितम् ।।

नारदः--

‘दीर्घश्मश् दीर्घबाहुं सर्वदा दीर्घदर्शनम् ॥ २५०

श्वशुरं तव गोविन्द! पश्य माधव भूमिपम् ।

श्रीनिवासः

‘धन्यं नारद! मजन्म यदाकाशोऽद्य बान्धवः ॥ २५१

सम्बन्धस्तेन सम्प्राप्तः किं मयाऽचरितं पुरा ।
वदत्येवं हृषीकेशे राजा सत्यपराक्रमः ॥ २५२

द्वारतोरणमासद्य श्रीनिवासं ददर्श ह ।
पूजयामास गोविन्दं वसनाभरणादिभिः॥ २५३

गन्धतैलेन राजेन्द्र! जमातरमपूजयत् ।
सा ददर्श वरारोहा पतिं परमपावनम् ॥ २५४