पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९५
श्रीवेङ्कटाचलमाहात्म्यम्


कारं कृतवान् कृष्णः सर्वेषां तृप्तिहेतवे ।
तन्मुखाम्भोजसम्भूतवायुना तृप्तिहेतुना ॥ २३४

सुधेन्वा यथा तृप्तः तदैव मुनिपुङ्गवाः।
शुकं सन्तोषयामसुः वचनैः सोत्रमिश्रितैः ॥ २३५

श्रीनिवासाभिमुखया स्खपुरा सपरिकरवियन्नृपागमनम्

कृत्वाऽष्टम्यां तत्र वासं नवम्यां गुरुवासरे ।
प्रभातसमये प्राप्ते श्रीनिवासस्त्वराऽन्वितः ॥ २३६

पुनर्गरुडमारश्च गुरुमारे जगद्गुरुः ।।
चतुरङ्गष यज्ञे ब्रह्मणञ्च पितामहम् ॥ २३७

निधाय पुरतो राजन्! जगाम जगदीश्वरः।
अस्तादिं प्रस्थिते भान तसिन् काले महीपते! ॥ २३८

अष्टवर्गे स्वय कृत्वा कृतकौतुकमङ्गलः ।
पझावतीं यापयित्र गन्धतैलेन भूमिष !॥ २३९

अलकाय वरां कन्यां अलङ्कौरैर्महीपतिः ।
गजमारोप्य तरसा पुत्र पुत्रीहिते रतः ॥ २४०

आकाशराजो धर्मात्मा पुत्रेण सह संयुतः ।
पुरोहितेन शक्रेण तंण्डमानेन निर्ययौ ॥ २४१

श्रीनिवासं जगद्योनिं द्रष्टुकामो रमापतिम् ।
चतुरञ्जयतैः सर्वैः गजाश्वरथसंयुतैः । २४२

वरौ चैव पतभिः चामैर्यजनैरपि ।
भेरीदुन्दुभिनिघोंपैः चादित्राणां महास्वनैः ॥ २४३

नर्तकैनटकैश्चैव सूतमागधवन्दिभिः।
स्तूयमानो महाराज ! सैन्यमध्ये अराजत ॥ २४४