पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९२
श्रीवेङ्कटाचलमाहात्म्यम्


सुपुवमिलाविललोकपालं
शेषेण लभ्य च युतं यतोऽहम् ।
पश्यामि भाग्योदयशालिदृग्भ्यां
त्वत्पदपूजा सफल ततो मे ॥ २१२

विज्ञापन मे शृणु देवराज !
प्रसादहेतोस्तव वायुदेव!
कृत्वा कृथा वेकटशैल्नाथ!
भुक् मदीयं फलकदमूलम् ॥ २१४

इत्युक्तो मुनिना तेन वासुदेवोऽभ्यभाषत ।

श्रीभगवान्

'शृणु तापसशाल ! वचन साधुसम्मतम् ॥ २९५

भवान् कृशो त्रिरागी च ब्रह्मचारी दृढव्रतः ।
वयं संसारनिरतः बहवश्चात्र भूसुर! ॥ २१६

अचैव नगरीं गत्वा राज्ञस्तस्य महात्मनः ।
तथैव भोजनं कुर्म इति मे वर्तते मनः ॥ २१७

वदत्येवं हृषीकेश व्यासपुत्रोऽभ्यभाषत ।
श्रीशुकः- 'निष्किञ्चनोऽहं गोविन्द! निष्किञ्चनजनप्रिय ! ॥ २१८

त्वयि भुक्ते जगद्भक्तं नात्र कार्या विचारणा।
वदत्येवं शुक्रे कृष्णं बकुय वाक्यमब्रवीत् ॥ २१९

बकुला- ‘शृणु तद्वचनं कृष्ण! स्त्रद्विवाहे रमापते !। ।
यत्रं बहुविधं चक्रे राजानं स हि बोधयन् । ॥ २२०

इति मातुर्वचः श्रुत्वा माधवः शुकमब्रवीत् ।
श्रीनिवसः -
त्वद्वाक्यामृतपानेन तृप्तिमेऽभून्मुनीश्वर ! ॥ २२१