पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४०६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३९०
श्रीवेङ्कटाचलमाहात्म्यम्


भ्रातरं वकुलं राजन् ! विमानं सूर्यसन्निभम् ।
समारोप्य महाराज ! भगवान् भक्तवत्सलः ॥ १९२

वयस्तु गरुडारूढो जगाम च सतां गतिः।
शेषो दधार राजेन्द्र! श्वेतच्छत्रे शशिप्रभम् ॥ १९३

चामरे चन्द्रसकाशे वीजयामास मारुतः ।
व्यजनेन विचित्रेण रलदण्डेन माधवम् ॥ १९४

वीजयामास राजेन्द्र! विष्वक्सेनः प्रतापवान् ।
भेरीदुन्दुभिनिचयैः वादित्राणां महास्वनैः ॥ १९५

नर्तकैनटनैवैव हाहाइड्रयुधोऽञ्जसा ।
ययौ विभवमापन्नः सर्वात्मा सर्वतोमुखः ॥ १९६

गभने वासुदेवस्य देवानामपि भूमिप!।
ऋषीणां पूर्वदेवानां गन्धर्वाणां तपस्विनाम् ॥ १९७

समर्दः सम्बभूवात्र पशूनां मानुषासनाम् ।
वनितनश्च वृद्धानां बलानां रक्षसामपि ॥ १९८

अन्योऽन्यं कलहस्सत्र वनितानामभूत्तदा।
अप्रीणां ऋषिकन्यानां देवस्त्रीणाञ्च दैवतैः॥ १९९

तत्राधना तु गच्छन्ती मार्गमध्ये महीपते!।
काचिद्भर्तारमालम्ब्य पुत्रमंसे निधाय च ॥ २००

भरसुद्धृत्य शिरसि पद्मामेव स गच्छति ।
तस्मिन् काले महाराज ! स्थस्याः सुरयोषितः ॥ २०१

पन्थानमनुलधन्योऽतर्जयंश्चाधनान् कृशन् ।
तदा वियोगमापन्न भन्न सा भारपीडिता ॥ २०२

कुन्ती ‘नाध हा नाथ ! बने न यक्तुमर्हसि ।
एवमुक्त्वा विप्रपती सपुत्रा एतिता भुवि ॥ २०३