पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
श्रीवेङ्कटाचलमाहात्म्यम्

 पश्चाद्युद्वसरस्तीर्थं विष्वक्सेनजयावहम् ।
 इति मुख्यानि तीर्थानि महापतकसङ्क्षये ॥ २६

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये भक्तिवैराग्यप्रद-


अष्टषष्टितीर्थनामवैभववर्णनं नाम


पञ्चमोऽध्यायः ।।


***'



अथ षष्ठोऽध्यायः



मन्वाद्यष्टोत्तरशततीर्थनामानि


दुर्वासा:---
 मन्विन्द्रवसुसंज्ञानि रुद्रादित्याह्वयानि च ।
 नवप्रजेशसंज्ञानि ह्याश्विनं शुकसंज्ञितम् ॥ १

 वरुणं जाह्नवीतीर्थं कापेयं काण्वमेव च ।
 आग्नेयं नारदं तीर्थं सोमतीर्थञ्च भार्गवम् ॥ २

 धर्मतीर्थं यज्ञतीर्थं पशुतीर्थं गणेश्वरम् ।
 भौमाश्व पारिभद्रञ्च जगज्जाड्यहरं परम् ॥ ३

 विश्वकल्लोलतीर्थञ्च तीर्थं यमविनिर्मितम् ।
 बार्हस्पत्यं रोमहर्षं अजामोदं जनेश्वरम् ॥ ४

 इष्टसिद्धिः कर्मसिद्धिः वाटमौदुम्बरं तथा ।
 कार्तिकेयं कुब्जतीर्थं दशप्राचेतसं तथा ॥ ५

 गारुडं शेषतीर्थञ्च वासुकिर्विष्णुवर्धनम् ।
 कर्मकाण्डं पुण्यवृद्धिः ऋणमोचनमेव च ॥ ६

 पर्जन्यं मेघतीर्थञ्च यत्र नित्यप्रवर्षणम् ।
 साङ्कर्षणं वासुदेवं नारायणमतः परम् ॥ ७