पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
श्रीब्रह्मपुराणे पञ्चमोऽध्यायः

 ततो विषहरं तीर्थं आस्तिकेन विनिर्मितम् ।
 तक्षकेणापि सन्दष्ट- स्वनेनैवेह निर्विषः ॥ १५

 लक्ष्मीतीर्थं ततः पश्चात्
  पूर्वस्यां दिशि संस्थितम् ।
 वायव्यां दिशि तीर्थानि
  चोत्तरस्यां तथैव च ॥ १६

 ऋषितीर्थं महापुण्यं शतानन्दं सुतीक्ष्णकम् ।
 वैभाण्डकं महापुण्यं बिल्वतीर्थमतः परम् ॥ १७

 अधस्ताद्विष्णुतीर्थञ्च पुण्यं मारुतिनिर्मितम् ।
 सर्वतीर्थमिति ख्यातं शारभन्तु तत परम् ॥ १८

 ततो वायव्यदेशे तु ब्रह्मतीर्थं मनोहरम् ।
 अश्वमेधेन यत्रेजे भगवन्तं सनातनम् ॥ १९

 अधस्तादिन्द्रतीर्थन्तु भारद्वाजमतः परम् ।
 ततस्त्वम्बरगङ्गाख्यं ततः प्राचेतसं तथा ॥ २०

 ततः पापविनाशश्च तीर्थं सारस्वतं तथा ।
 यत्र पापानि सर्वाणि क्षालितानि च सर्वशः ॥ २१

 तोये च श्वेततां यान्ति जनानां पापकारिणाम् ।
 कुमारधारिका नाम वायव्यां दिशि वर्तते ॥ २२

 अधस्ताद्गजतीर्थन्तु ऋष्यशृङ्गमतः परम् ।
 ततस्तुम्बुरुतीर्थञ्च नारदाद्यैश्च सेवितम् ॥ २३

 तन्मध्येऽष्टादशं तीर्थं सर्वपापविनाशनम् ।
 दशावतारतीर्थञ्च हालायुधमतः परम् ॥ २४

 ततः सप्तर्षितीर्थञ्च गजकोणमतः परम् ।
 वैष्वक्सेनं तथा तीर्थं पश्चिमे तु विराजितम् ॥ २५