शङ्करस्य वचः श्रुत्वा प्रशशंस हसन् हरिः।
ततश्चतुर्मुखः प्राह शेषचलपतिं प्रति ॥ १४३
ब्रह्मा- 'सर्वज्ञस्वं दयासार! सत्यसङ्कल्पमनसि ।
अष्टवर्गे ततः कार्यं विवाहात् पूर्वमेव हि ॥ १४४
तस्मादज्ञां देहि मम पुण्याहे पुरुषोत्तम!।
स पुत्रवचनं श्रुत्वा वसिष्ठं मुनिमानयत् ॥ १४५
वसिष्ठादीन् प्रति भगवन्कृतविघहकार्पनियोजनप्रकारः
वसिष्ठश्च महाभागे पैौरोहिये न्ययोजयत् ।
यजुःशाखमहामन्तैः कर्तःयं स्वस्तिवाचनम् ॥ १४६
सर्वेषामपि देवानां यजमानो भवानिति ।
देवानाश्च ऋषीणाञ्च मनने शङ्करं न्यधात् ॥ १४७
देवऽज्ञाने कुमारस्तु प्रयुथाने च मन्मथम् ।।
दत्वा तेषां वीटिकन्तु कृष्णधर्मानमाह्वयत ॥ १४८
गृहाण स्वं वीटिकां च पार्थं हव्यवाहन! ।
ऋषीणां सर्वदेवानां तव पकस्तु सग्मतः ॥ १४९
तस्मात् पाकं कुरुष्व त्वं स्वधावद्भासमन्वितः।
इति शिष्टो यज्ञमूर्तिः ‘तथाऽस्त्रियत्रवीद्धरिम् ॥ १५०
ततः स प्राह क्रूणं जलार्थं सर्वदेहिनाम् ।
दुष्टानां दण्डने राजन्! शिष्टानां परिपालने ॥ १५१
यमं 8 कल्पयामास सुगन्धे वायुमादिशत् ।
धनदाने ब्राह्मणार्थे वस्त्रालङ्कारदपने ॥ १५२
कुबेरं योजयामास भगवन् नृपसत्तम!।
प्रदीपधारणे राजन्! निशाकरमयोजयत् ॥ १५३
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३८२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६६
श्रीवेङ्कटाचलमाहात्म्यम्