पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
श्रीब्रह्मपुराणे पञ्चमोऽध्यायः

 तत्र स्नात्वा नरः सद्यो मुक्तिमेति न संशयः ।
 येन जन्मसहस्रेषु पुण्यमेवाऽर्जितं पुरा ॥ २८

 तस्य स्नानं तत्र भवेत् नान्यस्यासुकृतामनः ।
 तत्र स्नानं सकृद्यस्य जन्मकोटिशतेषु सः ॥ २९

 गङ्गादिसर्वतीर्थेषु स्नातो भवति मानवः ।
 विभवानुगुणं दानं कार्यं तत्र यथाविधि ॥ ३०

 सालग्रामशिलाञ्चान्नं गाञ्च दद्याद्विशेषतः ।
 भूमेिं दद्यात्प्रयत्नेन ब्रह्मलोकजिगीषया ॥ ३१

 पितॄनुद्दिश्य दातव्यं श्राद्धाद्यं तत्क्षणेन वै ।
 अरुणोदयमारभ्य तत्र षड्घटिकावधि ।
 सङ्गमः सर्वतीर्थानां तत्र पुण्यमनन्तकम् ॥ ३२

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये मुक्तिप्रदस्वामिपुष्करिण्यादि-


सप्ततीर्थमहिमानुवर्णनं नाम


चतुर्थोऽध्यायः ।




अथ पञ्चमोऽध्यायः


***


श्रीवेङ्कटाचलस्थाष्टषष्टितीर्थमहिमानुवर्णनम् ।



दिलीपः---
 भक्तिवैराग्यदानाञ्च तीर्थानां नाम वैभवम् ।
 श्रोतुमिच्छामि चात्रेय ! प्राप्तानाञ्चाष्टषष्टिताम् ॥ १

दुर्वासाः---
 भक्तिवैराग्यदं पुण्यं सद्यः पापविनाशनम् ।
 तीर्थानामष्टषष्ठेऽस्तु तव वक्ष्यामि वैभवम् ॥ २