पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
श्रीवेङ्कटाचलमाहात्म्यम्

 मुक्तिश्च भविता तत्र नात्र कार्या विचारणा ।
 कुमारधारिकयाञ्च सार्धं दक्षिणया विभो ! ॥ १६

 अन्नदानञ्च कर्तव्यं पितॄनुद्दिश्य यत्नतः ।
 युक्ते चोत्तरफल्गुन्या शुक्लपक्षीयपर्वणि ॥ १७

 तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ।
 अपराह्ने समायान्ति तत्र स्नात्वा न जायते ॥ १८

 विवाहमौञ्जीबन्धौ च कारयेद् द्रव्यदानतः ।
 मेषसङ्क्रमणे भानौ संयुतायान्तु चित्रया ॥ १९

 पौर्णमास्यां समायान्ति वियद्गङ्गां तथैव च ।
 तत्र स्नात्वा नरः सद्यः शतक्रतुफलं लभेत् ॥ २०

 सुवर्णदानं कर्तव्यं कन्यादानं विशेषतः ।
 वृषभस्थे रवौ राजन् ! द्वादश्यां रविवासरे ॥ २१

 शुक्ले वाऽप्यथवा कृष्णे भौमस्यापि च वासरे ।
 पाण्डुतीर्थं समायान्ति गङ्गादीनि जगत्त्रये ॥ २२

 तत्र स्नात्वा च गां दत्वा मुच्यते प्रतिबन्धकात् ।
 कालस्तु सङ्गवस्तत्र ऋषिभिः परिकीर्तितः ॥ २३

 आश्विने शुक्लपक्षे तु भानुवरेण सप्तमी ।
 योत्तराषाढया युक्ता तस्यां पापविनाशने ॥ २४

 प्राप्तायामुत्तराभाद्रां द्वादश्यां वा समागतः ।
 तदा पापविनाशाख्ये स्नातुर्मुक्तिर्भविष्यति ॥ २५

 शालग्रामशिलं दत्वा स्नात्वा च विधिपूर्वकम् ।
 मुच्यते सर्वपापैश्च जन्मकोटिशतोद्भवैः ॥ २६

 धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ।
 अ यान्ति सर्वतीर्थानि स्वामिपुष्करिणीजले ॥ २७