पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४३
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


तमायान्तं मुनिं दृष्ट्वा चतुरङ्गवलन्वतः ।।
पुरोहितं पुरस्कृत्य कुशमूलफलोदकैः ॥ १२९

अभियानतदा राजा सन्तोषं प्रप सा पुरी ।
यानादुत्तीर्य राजेन्द्र! साष्टानं प्रणिपत्य तम् ।
गजमारोप्य नगरीं सपुरोहित आनयत् ॥ १३०

निकेतनानर्भवने निवेश्य निधिं मुनीनां प्रवरं स राजा।
सम्पूजयामास विधानवित्तमो विद्यागुरुं ज्ञानगुरुव नत्वा ।१३१

राजा -

तापसं परिपप्रच्छ कन्यार्थ विषणाग्रतः ।
पझवितीं प्रदास्यामि भवद्यामनुमोदितः ।
श्रीनिवासाय कृष्णाय निश्चितं हि मया वरः ॥ १३२

स तद्वचनमाकर्य राजानं राजसत्तम!।
शुकोऽब्रवीद्रिं पुत्रीकारणास्करुणान्वितः ॥ १३३

श्रीशुकः -

मा कुरुष्व महराज्ञ! सन्देहें दानकर्मणि ।।
धन्योऽसि त्वं महीपाल! कुलं पावनतां गतम् ॥ १३४

पितरस्तु दिवं प्राप्तः नात्र कार्या विचारणा। ।
किं त्वयाऽऽचरितं पुण्यं पूर्वजन्मनि भूमिप ॥ १३५

भगवानरविन्दाक्षः श्रीनिवासः सतां गतिः।
जामातृवं समापन्नः तस्मान्नास्ति तथाधिकः ॥ १३६

विलयो नैव कर्तव्यः शुभं शीघ्र विधीयताम् ।
वयं धन्याः कृतः सः तव सनेन भूमिप ! ॥ १३७

चयन्तु तपसाऽऽराध्य कंदमूलफलाशनः ।
सर्वसङ्गं परित्यज्य न पश्यामोऽत्र ते विभुम् ॥ १३८