पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४२
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीनिवासाय तां कथं प्रदातु काङ्कते नृपः।
युक्तायुक्तविचिसायै गुरुमाहूतवानपि ॥ ११८

तदर्थमेव चाद्य त्वां समाह्वयति भूमिपः।
युक्तायुक्ते विचिन्याथ लेखितुं शुभपत्रिकम् ॥ ११९

अवकाशश्च कृत्वाऽद्य गच्छ तन्नगरीं प्रति।
एवमुक्तो महीदेव ! महीपालेन भूमिप!॥ १२०

स सम्भ्रमात् समुत्थाय व्यभ्रमद्विभ्रमन्नित्र }
भिन्दन् कमण्डञ्च राजन्! छिन्दन् कृष्णमृगत्वचम् ॥ १२१

विच्छद्य मणिमालश्च स ननर्त महामुनः ।
सुहूर्तमिथु राजेन्द्र! तद्बुद्धिवशं गता।।
उवाच पश्चद्राजानं काष्र्णद्वैपायनिर्मुनिः ॥ १२२

श्रीशुकः साधुदितं वाक्यमुदारविक्रम ! त्वय हरेर्वेङ्कटशैरवासिनः ।
कन्याप्रदानं पुरुथार्थसाधनं समतलोकपवित्रकरकम्॥ १२३

आकाशराजधिषणैौ श्रीनिवासकृपावयत् ।
महादानपराविर्थ भूयास्तञ्च दिने दिने ॥ १२४

इयाशिषा प्रशस्याथ पद्मतीर्थेऽवगाह्य च ।
कृत्वा माध्याहिकीं सन्यां त्यक्तु जीर्णापवर्हणम् ॥ १२५

स नवानि कुशाग्राणि निकृत्य मुनिसत्तमः ।
विक्रीटं बन्धयित्वा तैः उत्तमानिबन्धनम् ॥ १२६

कवचे कल्पयामास कुशरैः कुसुमैस्तदा।
तुळसीमणिमालाभिः कष्टकर्णविभूषितः ॥ १२७

आपादम्बकृष्णत्वक्कवचैस्समलङ्कतः ।
अश्वयानेऽधिरोप्यैनं निनाय स नृपानुजः ॥ १२८