पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३५७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३४३
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


प्राप्तं पुरोहितं दृष्ट कृत्वाऽर्जा विधिपूर्वकम् ।
कालोचितं वाचयित्वा वन्दमान उवाच सः।
राजा- ‘तवऽज्ञया करिष्यामि विवाहं दुहितुर्मम ॥ १०८

श्रीनिवासस्य सम्बन्धो विदितस्य प्रशस्यते ।
कन्यार्थमागता । साध्वी बिदिते गोत्रनामनी ॥ १०९

तथाऽपि तव वाक्येन विवाह कर्तुमुत्सहे।
स राज्ञो वचनं श्रुत्वा राजानं प्रत्यभाषत। । ११०

गुरु.‘सफलं वृक्षमाश्रित्य जीवन्ति बहवो मुवि।
तथा बयञ्च जीवामः तव भाग्यावलम्बनः ॥ १११

अहं कदाचिदेवात्र समगच्छामि भूतलम् ।
न जानामि ततः सम्यक् शुक आश्रितवान् सदा ॥ ११२

स जानाति महराज ! स्थितिमेतस्य शार्जिणः ।
अत्रैवोतरदिग्भागे पञ्चक्रोशमिते नृप! ॥ ११३

शुकोऽस्ति व्यासतनयः श्रीनिवासपरायणः ।
तमाहूय महाराज ! शीघ्र ते पृथिवीपते ! ।
स वक्ष्ययाममः सौख्यं वृत्तान्तं तस्य चादितः ॥ ११४

बृहस्पत्यु या वियन्नृपकृतशुकाह्नम्

एवमुक्तोऽथ गुरुण। आतरं ब्राणप्रियम् ।
संदिदेश महाराज! शुकाश्रममरिन्दमः ॥ ११५

स गत्वा वायुवेगेन स्थेनादित्यर्चसा ।
ध्यानयोगादुस्थतं तं दृष्ट्वा शुकमुवाच ह ॥ ११६

डमान्-' श्रुणु तापसशार्दूल! वचनं राजभाषितम् ।
पझावती विवाहधं सपना गुरुपूजिता ॥ ११७