पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३९
श्रीभविष्योत्तरपुराणे नवमोऽध्ययः


न दोषमितरं विद्धि श्रीनिवासे निरामये ।
तद्वृत्तमखिल भुवा समाहूय स्वक सुतम् ॥ ८७

नृपमाह्नापयामास धरणी पतिमामनः ।
एकान्ते राजशले इदं वचनमब्रवीत् ॥ ८८

धरण्युक्त थ वियन्नृपकृतपद्माक्याश्वासनप्रकारः

धरणी- ‘कन्यार्थमागता राजन् ! बकुल वेङ्कटाचलत् ।
सुतं सम्प्रेक्ष्य चापि च स्वपुरोहितमन्त्रिभिः ॥ ८९

वरस्यार्पि विचर्याशु कुलविद्यावादिकम् ।
गोलऋक्षाद्यनुकूल्यं ब्राह्मणैर्वेदपारगैः ॥ ९०

विचार्य वरवध्वोश्च योनिनाडीसङ्गतिम् ।
सर्वे सम्यक्समालोच्य कन्यादानं कुरु प्रभो ! ॥ ९१

कन्यार्थमागता साध्वी दुहितुर्वेदिमं मनः ।
तमेवेच्छति ते पुत्री वेङ्कटाचलवासिनम् ॥ ९२

धर्मदेवीवचः सत्यं शुभं शीतं विधीयताम् ।
इति पल्या वचः श्रुस्य सोऽभूदानन्दनिर्भरः ॥ ९३

आकाशराज •‘अहो मङ्गलमस्माकं सम्प्राप्सं पूर्वपुग्थतः।
अस्माकं पितरः सर्वे कृतार्था मुक्तिभागिनः ॥ ९४

त्वद्वाक्यामृनपनेन रोमहर्पस्तु जायते ।
कदा पश्यामि कश्याणं वधूवरसमागतम् ॥ ९५

सभर्तृकां राजपुत्रं राजसिंहासने स्थिताम् ।
कद पश्यामि नेत्राभ्यां बन्धुमण्डलमध्यगम् ’ । ९६

इत्युक्ता भवनं चाग्रत दुहितुर्मुहितृप्रियः ।
नृपः पद्मावतीं प्राह सान्त्वयन् वचसा सुताम् ॥ ९७