पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३२८
श्रीवेङ्कटाचलमाहात्म्यम्



ग्रामिकाः- ‘याहि मङ्गलदे ! देवि! राजभयमिम मिति ।
सा श्रुत्वा वचनं तासां मन्दमाह मनस्विनी ॥ १२९

धर्मदेवी- ‘अहं दरिद्रा कुटिला सवालाऽभाग्यसंयुता। ।
आदानं किं बिनोदार्थ हास्यार्थे हसिताननाः ! ॥ १३०

मद्वयं पश्यत च्छिद्रं मदाभरणमण्डलम् ।
नवधान्यसमाकीर्णगुल्मं गुञ्जाविभूषितम् ॥ १३१

अन्नहीनं शिक्षु माघ दृष्ट। देयेति ने ध्रुवम् ।
नागच्छमि बिशालक्ष्यः ! किं कथं राजमन्दिरे । ॥ १३२

धर्मदेवीवचः श्रस्थ जमुस्ता धरणीं प्रति ।
यथोक्तं धर्मदेव्या तु तदाचख्युश्च तां प्रति ॥ १३३

तासां तद्वचनं श्रुत्वा धरणी तां ययौ स्वयम् ।
उवाच धर्मदेची तां धरणी राजसुन्दरी ॥ १३४

धरणी- 'एहि भद्रे महाभागे! साक्षात्त्रं धर्मदेवता । ।
दैवयोगादागताऽसि मम कल्याणवर्धिनी ॥ १३५

मनोरथो मनःसंस्थः तथ्यं मे कश्यतामिति ।
भाषिता राजपत्न्या स सयम धरां प्रति॥ १३६

धर्मदेवी कठिनं मम वावयन्तु शृणु राजन्यश्लभे !।
मया तु गदितं वाक्यं असस्यथश्चेन्मनस्त्रिनि ! ॥ १३७

पुरनिष्कास्य मां देवि ! जिहृयश्छेदनं कुरु ।
नरनारायणः स्वामी मद्भर्ता राजसुन्दरि ! ॥ १३८

तीर्यजातपुत्रस्तु प्रजापतिमिमं विदुः।
तेनाऽक्षप्त वदथे च सम्प्राप्त । तव मन्दिरम् ॥ १३९

भूतं भव्यं भविष्यच्च जानामि जगदीश्वरि !!
इत्युक्त। धर्म देम्या सा रजपनी पतिव्रता ॥ १४०