पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
श्रीवेङ्कटाचलमाहात्म्यम्

 साक्षात्पूजाश्रयो नित्यं अहं बिम्बान्तरेण च ।
 यथा दृष्टं बिमाने ते मद्रूपं पुरुषर्षभ ! ॥ ४९

 तथा कुरु महाभाग ! तेन ते भविता गतिः' ।
 इत्युक्त्वाऽन्तर्दधे देवः सर्वेषामेव पश्यताम् ॥ ५०

 तेनोक्तमार्गेण विधाय पुष्यं
  विमानवर्यं प्रतिमाञ्च पुण्याम् ।
 प्रस्व्याप्य शङ्खो नरलोकसङ्घे
  जगाम विष्णोः पदमव्ययं शुभम् ॥ ५१

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये शङ्खनृपादितपस्तुष्ट-

भगवदाविर्भावादिवर्णनं नाम

तृतीयोऽध्यायः ।


---



अथ चतुर्थोऽध्यायः


***


श्रीवेङ्कटाचलस्थमुक्तिप्रदस्वामिपुष्करिण्यादिसप्ततीर्थवर्णनम्


दिलीपः---
 'अस्मिन्नगोत्तमे पुण्ये कति तीर्थानि सन्ति हि? ।
 तेषां सङ्ख्याञ्च मे ब्रूहि कति मुख्यानि तत्र वै? ॥ १

 तत्राप्यत्यन्तमुख्यानि वद मे मुनिसत्तम! ।
 सद्धर्मरतिदान्यत्र कति सङ्ख्यान्वितानि च ॥ २

 कति च ज्ञानदान्यन्न भक्तिवैराग्यदानि च ।
 मुक्तिप्रदानि कान्यत्र तानि मे बद सुव्रत !? ॥ ३