पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०८
श्रीवेङ्कटाचलमाहात्म्यम्


विचारयन् स नृपतिः पुत्र्यौं वरमुत्तमम् ।
न प्राप दुःखसन्तप्तः ‘कस्में देया मया सुता ॥ ८०

इति चिन्ताऽब्धिमनोऽसौ पुत्रीपरिणये तव ।
असम्मतोऽकरोत्पुत्रं परं संस्कारसंस्कृतम् ॥ ८१

श्रुत्वा राजसुता बाला चालणैरनुज परम् ।
तदोपनीतं सद्योऽभूत् पुत्री यौवनपीडिता। ॥ ८२

सा कदाचिद्वनं बाला सखीभिः परिवारिता।
जंगम पुष्पाभ्याहते कन्या कमललोचना ॥ ८३

वसन्तमागतं वीक्ष्य वने ताभिर्भयाकुला ।
पुष्पाण्याहारयामास तरुमूलमुपाश्रिताः ॥ ८४

तदाSSतो नारदस्तु वृद्धो भूत्वा जटाधरः ।
धूलीधूसरिताश्च कर्दूरसदृशद्युतिः ॥ ८५

आगते तं मुनिं दृष्ट्वा विसयाकुलमानसा। ।
पावनी सखीः प्राह चटुला भृशकातरा ॥ ८६

‘कोऽसैौ भयङ्करो बालः ! क यात्यत्र विचार्यताम् ।
इत्युक्तास्तास्तदा कन्याः पप्रच्छु— स्थविरं द्विजम् ॥ ८७

कोऽसि विप्र महाप्रज्ञ! किमर्थं त्वमिहागतः ।
वाक्यं तासां समाकर्यं गुरुः प्रोवाच सद्वचः ॥ ८८

नारदः-- 'अहं कुलगुरुः साक्षात् युष्माकं वरयोषिताम् ।
हसं दर्शय मे पुत्रि! ळक्षणानि वदामि ते।
उवाच लजय देवी 'किं वदिष्यसि हे द्विज ! ॥ ८९

नारदः- ‘विद्धि त्वं पितृतुल्यं मां मनसा निर्मलेन च ।
इत्युक्ता मुनिना तेन दत्त्र हस्तं वराङ्गना ।
प्राह भावि शुभं श्रोतुं निजलक्षणलक्षितम् । ९०