पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०७
श्रीभविष्योतयुपुराणे षष्ठोऽध्यायः


ततः कालेन सा साध्वी नवमासे गते सती।
मासे तु दशमे प्राप्ते सुषुवे पुत्रमुत्तमम् ॥ ६८

कन्याराशिगते भानौ दशम्यां रोहिणीयुधि।
पक्षे तु प्रथमे देवी सायंकाले गुरोर्दिने ॥ ६९

पुत्रोत्पत्तिप्रवक्तृणां सर्वस्वं दत्तवांस्तदा।
गवां कोटिसहस्राणि चाश्वानामयुतं तथा ॥ ७०

नवधान्यानि वस्त्राणि बिना स्वे छत्रचामरे ।
दानं कृखा नृपश्रेष्ठ स्वस्तिवाचनमचरत् ॥ ७१

जातकर्मादिकं कर्म कृतवांस्तत्क्षणं नृपः ।
दिने च द्वादशे प्राप्ते कृत्वा पुत्राभिधां तथा॥ ७२

यन्न वसुदतेति लोके ख्यातिं गमिष्यति ।
तद्दिने बहुविप्रौघान् अनवैः पर्यतोषयत् ॥ ७३

ऋषयःश्रुतं पुत्रस्य चरितं न भुमे व्यासवलभ ! ।
अयोनिमायास्तशुभ्यः किं नाम च तदाऽकरोत् ॥ ७४

श्रीमूत-- पझोदरीं पझगर्भा पङ्कजानां वराननाम् ।
पद्माया अवतारां तां मत्वा तस्यास्तदाऽकरोत् ॥ ७५

अनुरूप नामकर्म नाम्ना पद्मावतीति च ।
वर्धमानौ सुतौ दृष्ट्र राजा सन्तोषमागतः ॥ ७६

अकलहेन्दुसदृशौ रमाचन्द्रमसाविव।
किं तेन सुकृतं राज्ञ बहुजन्मसु सवितम् ॥ ७७

अप्रजां पुत्रिज्ञ दृष्टा तदन्ते पुत्रमुत्तमम्।
दृष्टा तुतोष मनस। सपूर्णानन्दविभ्रमः ॥ ७८

इत्थं काले गते तसिन् स बाल यौवनं गता ।
यौवनाढ्यां विशालाक्षीं दृष्ट। राजाऽप्यचिन्तयत् ॥ ७९