दैत्यानां मोहनार्थाय सुरणां मोदनाय च।
क्रोडते बालकैर्बालो जगत्पालकालक्रः ॥ ५१
जगमोहनसौन्दर्यलीलामानुषविग्रहः ।
नैतद्धं कृते देवैः न कृतं विश्वकर्मणा ॥ ५२
स्वेच्छया क्रीडते तत्र स्वेच्छारूपविराजितः।
क्षेत्रय महिमा दिव्यः तथा तीर्थस्य वैभवम् ॥ ५३
तत्र सक्षािद्रमाकान्तः किं तत्र सुकृतं कृतम् ।
बहुजन्मार्जितैः पुटैः लभ्यते क्षेत्रदर्शनम् ॥ ५४
तत्रापि वेङ्कटगिरेः दर्शनं मुक्तिदं परम् ।
दुर्लभं देवसङ्घानां मनुष्याणातु का कथा ? ॥ ५५
इति श्रीभविष्योत्तरपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहाल्ये
पझावतीपरिणयोर्पोद्धातादिवर्णनं नाम
पञ्चमोऽध्यायः ।।
***
अथ वष्ठोऽध्यायः
मृगयाविहारोद्युक्तश्रीनिवासालङ्कारवर्णनम्
औसूतः- स कदाचिद्मेशस्तु चिन्तयामास वे इयम् ।
मनसा चिन्त्यमाने तु हयः प्रत्यक्षतां गतः ॥ १
वायुश्चत्वमापन्नो जुतत्वाभिमानिनी ।
उपासर्पत्स्वयं लक्ष्मीः ततोऽधे त स पूजयन् ॥ २
तस्योपरि समातिष्ठत् सर्वाभरणभूषितः ।
शुभ्रवस्त्रं प्रवदशहस्तं विभ्ररथोपरि ॥ ३