पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९८
श्रीवेङ्कटाचलमाहात्म्यम्


इत्युक्तो हरिण पोत्री हरये स्थानकाङ्किणे ।।
तदा दौ स्थलं पदशतमात्रं रमापतेः ॥ २९

परस्परं विनोदेन कुर्वाणावेकरूपिणौ । ।
मोहनार्थमभक्तानां भक्तानां भक्तिसिद्धये ॥ ३०

सडते वेङ्कटेशक्रोडरूपे सुरोत्तमे ।
तदारभ्य धराकान्तो वकुलां पाककारिणीम् ॥ ३१

अर्पयामास देवस्य सेवायें वेङ्कटेशितुः ।
भोजनार्थं रमेशस्य श्यामाकाने निरन्तरम् ॥ ३२

समधु प्रषयन्नय तया वकुलमाख्या।
सा चाथ भक्तिनिरता श्रीनिवासस्य सन्निधौ ॥ ३३

अन्नपानषधाचैश्च पादसंवाहनादिभिः।
पूजयामास गोविन्दं श्रीनिवासं निरामयम् ॥ ३४

ऋषयः- श्रुतं सूत महाभाग! देवागमनमुत्तमम् ।।
न श्रुतं श्रीवराहस्य प्रथम दर्शने फलम् ॥ ३५

श्रीनिवासस्य कृष्णाय कल्याणं शुभदं महत् ।
पुनः श्रीवेङ्कटगिरे वासः श्रीशङ्कयारिणः ।
बकुछ सेविका प्रोक्ता का सा। पूर्व वदस्व नः ॥ ३६

वकुलमालिकाख्यभगवरिचारिकपूर्वजन्मवृत्तान्तः

श्रीसूतः- पुरा यशोदा वकुल्ल कृष्णस्य जननी अभूत् ।
अदृष्टाऽनन्तरूपस्य कृणस्य तनयस्य सा।
कल्याण सुखद स्वथ तदयावत त हरिम् ॥ ३७

यशोदा- 'मनः सीदति मे कृष्ण! तव कल्याणवीक्षणे ।
दर्शयस्व रमानाथ! यशोदानन्दवर्धन ॥ ३८