पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३१३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२९७


श्रीवराहमुज्ञया श्रीनिवासस्य शेषाचलप्राप्तिः



इयन्यदेयं भाषमाणे साक्षान्नारायणावुभौ ।
सकैौतुकञ्च संवीक्ष्य स्तुत्वा स्व स्वं पदं ततः ॥ १८

गते देवगणे तत्र वराहो हरिमब्रवीत् ।
श्रीवराह - 'त्यक्वा वैकुण्ठलोकतु किमर्थं त्वमिहाऽगतः॥ १९

तद्वदस्व महाभाग! जगदानन्दकारण!।
इति तेन समज्ञो न्यगदौलुपिणा ॥ २०

श्रीनिवास -'भृगोरखप्रपाताच रमा कोहपुरं गता।
तेन दुःखेन सन्तप्त त्यक्तु वैकुण्ठमुत्तमम् ॥ २१

आगतोऽसि धराकास ! वल्मीकं तव दक्षिणे।
निवसन्तश्च मां देव! धेनुपालो ह्यनाडयत् ॥ २२

कुष्ठरेणासिधारेण तक्षतं मां प्रबाधते ।
औषधार्थं वराहस्मन्! गच्छामीह निरन्तरम् ॥ २३

दैवेन दृष्टवानस्मि वामद्येह धराधरम् ।
अत्रैव निवसामीति सङ्कल्पो मम वर्तते ॥ २४

स्थलं देखीवनीकान्त! यावकलियुगं भवेत्।
इति तेन स विज्ञप्तो वराहवदनो हरिः ॥ २५

उवाच वचनं देवः ’स्थलं मौल्येन गृह्यतम्।
इति वाक्यं ततः श्रुत्वा प्रोवाच मधुरं वचः ॥ २६

‘प्रथमं दर्शनश्च स्यात् नैवेयं क्षीरसेचनम् ।
इदमेव परं द्रव्यं ददामि करुणानिधे! ॥ २७

दास्यामि यत्ते भूकन्त! तदीकुरु माधम!।
वरं द्रव्यमिदं तात! कृपं कुरु कृपानिधे! ॥ २८