तपःफलप्रदानार्थं समायातं विदंस्ततः ।
तत्तपोबलसामर्थ्यात् सदा सानिध्यमत्र वै ॥ ८
भविष्यच्चापि विज्ञाय तत्र तेपे स्वयं तपः ।
तथाऽन्ये ब्रह्मणाऽऽज्ञप्ताः तपस्तेपुः सुदुष्करम् ॥ ९
सब्रह्मेशाः सुराः सर्वे सनकाद्याश्च योगिनः ।
अगस्त्याद्याश्च मुनयः शङ्खाद्याश्च नृपास्तथा ॥ १०
तथाऽन्येऽपि सहाद्राक्षुः आविर्भूतं वृषाचले ।
अप्राकृतविमानेन सार्थमेव श्रिय:पतिम् ॥ ११
इत्थं वायुमुखा देवा ब्रह्मेशानमुखा अपि ।
भेजिरे चापरे सिद्धिं बहवः सिद्धिकाङ्क्षिणः ॥ १२
यतोऽत्र तस्माच्छैलोऽयं ख्यातो देवेषु वायुना ।
दिलीपः---
'भगवन्नस्य शैलस्य केनाभून्मुनिषु प्रथा ?' ॥ १३
दुर्वासाः---
'देवं द्रष्टुं तपस्तेपे ह्यगस्त्यो मलयाचले ।
तदा गत्वाऽदद्ब्रह्मा 'मुने ! वेङ्कटमात्रज ।
तत्र ते भविता सिद्धिः' इत्युक्त्वाऽन्तर्दधे विभुः ॥ १४
श्रीवेङ्कटाद्रौ अगस्त्यतपस्तुष्टभगवद्वाण्याविर्भावः
सोऽपि शैलं समासाद्य तपस्तेपे सुदुश्चरम् ।
ततो वर्षसहस्रान्ते तमेवाहाऽशरीरिवाक् ॥ १५
'अष्टोतरसहस्राणि सन्ति तीर्थानि चात्र वै ।
स्नात्वा तीर्थेषु सर्वेषु लोके ख्यापय तानि च ॥ १६
नान्यत्तपो द्विजातीनां ऋते शास्त्रोपदेशतः ।
किं कायक्लेशधर्मेण का सिद्धिर्भविता द्विज ! ॥ १७