पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२८७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२७१
श्रीभविष्योतरपुराणे प्रथमोऽध्यायः


कचिमणान्तरं किंचित् कथयामास वै विभुः।
ततः प्रकुर्वतो वेगं मारुतस्य महात्मनः ॥ ११४

कनिष्ठाङ्गुलिमने तु प्रदेशे श्लथबन्धने ।
महावेगस्य सम्पर्कात् पर्वतो भोगिसंयुतः ॥ ११५

योजनान्यनिलक्षाणि दक्षिणाभिमुखो ययौ।
मेरुस्तुष्टाव नृपते ! बलदेवं महाबलम् ॥ ११६

त्रयतां त्रायतां स्वामिन ' पुत्रं बालं भवान् मम ।
एवमुक्तो मेरुणाऽये तत्पुत्रं पर्यपालयत् ॥ ११७

स्वर्णमुख्या महानद्याः प्रतीरे च तथोत्तरे ।
स्थापयामास राजेन्द्र! गिरिराजं सपन्नगम् ॥ ११८

ततो वायै सुरगणा योधयामामुरादरात् ।
अयं शेषांशजो वायो ! शैल; शैलमजेश्वरः ॥ ११९

हरेः सर्वदनेनैव जात घाऽवासहेतवे ।
व्याजेनैव त्वया नीतः तेन स्वर्णमुखतटम् ॥ १२०

स्वसंवादच्छलेनैष स्वस्थानेरखनितोऽहिना ।
मायावी भगवानिस्थं केवलं वां व्यपोहयत् । ॥ १२१

तदद्य फणिराजं त्वं अन्तॐ हरेरिमम् ।
प्रसादयापराद्धोऽसि वृथा तस्मिन् महमस्मनि ॥ १२२

इति सम्बोधितो देवै: हितकालिभिरादरात् ।
शेषं गतमदः पश्चात् तुष्टाघ मरुतां पतिः ॥ १२३

क्षमस्व मम दौरास्यं अज्ञानेनऽगतं विभो!।
त्वयाह भगवन् साक्षात् आगमिष्यति वै हरिः ॥ १२४

मयाऽपचरितं मौख्यं महाभाग वृथा त्वया ।
इत्थं प्रसादयामास फणिराजं तदा मत् ॥ १२५