सदा मेऽन्तःपुरे वासः पुत्रादध्यधिको हरेः ।
लोकानाञ्च हितार्थाय हितार्थ जगदीशितुः ।
स्थापितोऽस्मि द्वापये लक्ष्या नारायणेन च ॥ ९२
बिडालोऽन्तःस्थतो वापि बहिर्वेभसमो न हि ।
शयानं रत्नपर्यके राजनमपि सेवते ॥ ९३
कश्चिदृतो नियुक्तस्तु पर्यङ्काधिष्ठितः स्वयम् ।
विमाधिक्यं तस्य शेष ! पुत्र का न्यूनता बद ॥ ९४
तयोर्विवादो ह्यभवत् शेषवाध्वोर्महात्मनः।
लक्ष्याऽवबोधितः श्रीमान् उत्तथौ गरुडध्वज ॥ ९५
'किमर्थं क्रोशसे शेषे ! कः पुमानागतः प: '।
इत्युक्तो देवदेवेन फणिराजोऽभ्यभाषत । ॥ ९६
शेषः-
मलयाचलवसस्तु वायुरस्यन्तगांवत ।
अकालेऽतःपुरं शीतं प्रवेष्टुञ्च समुद्यतः ॥ ९७
अवाच्यवचनं प्रोक्तं अनेनात्यन्तमानिना ।
श्याइतः फणीन्द्रेण भावजेन तदा हरिः ॥ ९८
संज्ञाषयत्री भवं इौः द्वमाययौ ।
एतस्मिन्नेव काले तु साष्टाङ्गं प्रणिपत्य तम् ॥ ९९
बायुस्तुष्टः पुरुषं पुराणं वेदगोचरम् ।
बायुमालोक्य वचनं वारिजाक्षोऽब्रवीत्स तम् ॥ १००
भगवन्:-
किमर्थं कः पुत्रः शेषेणायतमानिना।
इत्थं हरेर्वागमृतं पीत्वा कर्णपुटद्वयात् ।
तुष्णीं बभूव नृपते ! वायुरयन्तभक्तिमान् ॥ १०१
पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२८५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६९
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः