पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२८४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२६८
श्रीवेङ्कटाचलमाहात्म्यम्

द्वापरयुगे शेषाचलनामनिष्पत्तिः

जनकः-

सन्तोषो ह्यभदन्मह् श्रुत्वा तन्नामकरणम् ।
द्वापरे शेषशैलेति कथं स्यातिर्भविष्यति ॥ ८२

शतानन्दः- पुरा वैकुण्ठनगरे द्वारि शेषं समादिशत् ।
जानन् भगवतो भवं सोऽiष्ठत् भाविकर्मण॥ ८३

चिकीर्षिते मारुतेन द्वारि जाग्रकुतूहूली ।
देवाधिदेव भगवान् रेमे च रमया सह ॥ ८४

तस्मिन् काले महाराज ! मारुतस्तु कदाचन ।
अकस्सारणात् प्राप्तो भगवन्त जनादेनम् ॥ ८५

द्वारे ते रोधयामास रुवमदण्डेन सर्परा ।
किमर्थं रुद्धयते मूर्व ! कार्यस्य महती त्वरा ।
इयुक्ते वायुना शेष उवाच वचनं पुनः ॥ ८६

शेष- ‘अहमाज्ञाधरो विष्णोर्मा चमतःपुरं गमः । ।
इति तस्य वचः श्रुत्वा जगमाणोऽब्रवीदिदम् ॥ ८७

वायुः- ‘जयस्तु विजयश्चैव संशप्तौ मुनिभिः पुरा ।
अहरेिण तौ जातौ कुम्भकर्णदशाननैौ ॥ ८८

विस्मृतौ किं त्वया मूढे ! द्वारपये नियोजिती ।
तद्वाक्यान्ते च राजेन्द्र ! प्रजज्वाल विषोल्बणः ।
गर्हयन् वचनैस्तीक्ष्णैः जगमाणमीश्वरः ॥ ८९

शेष:- 'किं गरिष्ठं वचः प्रोक्तं जीवनेच्छा न विद्यते ?।
कालेनानुगतो लोको नैव जानाति मोहितः ? ॥ ९०

त्वं तादृङ्नवद्दण्ड्यो वृथा मोहात् प्रभधसे ।
बले ज्ञाने विरागे च विष्णुभक्तो न मत्समः ॥ ९१