पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६७
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः


मतङ्ग– ' पम्पायाः पूर्वदिग्भागे पञ्चाशद्योजनान्तरे ।
नरसिंहाश्रमं देवि! वर्तते वसुधातले ॥ ७०

तस्य दक्षिणदिग्भागे नारायणगिरेस्तटे ।
उत्तरे स्वामितीर्थस्य वर्तते क्रोशमात्रकं ॥ ७१

वियद्भनेति विख्याता तत्र गच्छ यथासुखम् ।
तत्र स्नात्वाऽथ कल्याणि ! द्वादशाब्दं तपश्चर ॥ ७२

तेन पुण्येन ते पुत्रो भविष्यति गुणाधिकः ।
मतनेनैव मुक्ता सा नारायणगिरिं ययौ ॥ ७३

कृत्वा स्वामिसर:नानं अश्वत्थस्य प्रदक्षिणम् ।
वराहरूपिणं नत्वा पीत्वा तत्सलिलं शुभम् ॥ ७५

आकाशगङ्गामसाद्य तपः कर्तुं प्रचक्रमे।
मुनींश्चमघ्ध भर्तारं तथं भक्ष्यवर्जिता ॥ ७५

उपवासता बाल्न बाधभोगविवर्जिता ।
काष्ठवत् पर्यवस्थाप्य शरीरं स्याऽ नः शुचिं ॥ ७६

पूर्णे संवसरे जाते वायुदेवो महाबलः ।
फलमाहूय भक्ष्यार्थं प्रत्यहं यददन्मरुत् ॥ ७७

अथैकसिन् दिने श्रीयुः फले वीर्यमपूरयत् ।
वीर्यगर्भ फलं तस्याः प्राक्षिपकरसम्पुटे ॥ ७८

फलं सा मन्यमाना हि क्षुधार्ता तदभक्षयत् ।
ततो गर्भः समुदभूत् अज्ञानायाश्च भूमिष! ॥ ७९

मुनीनामभवद्वर्षा वयुगर्भसमुद्भवम् ।
अथ सा दशमासान्ते सुषुवे पुत्रमुत्तमम् ॥ ८०

हनूमन्तमिमं प्राहुः मुनयो वीतकल्मषः।
अञ्जन/ व्रतमास्थाय पुत्रं प्रप गिरीश्वरे ।
तस्लावज़नशैलोऽयं लोके विख्यातकीर्तिमान् ॥ ८१