पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६६
श्रीवेङ्कटाचलमाहात्म्यम्


नक्तवरस्य चरितमतिक्रान्तुं क्षमोऽप्ययम् ।
प्रशंसन् राक्षसं वरं ‘साधुसाध्वित्यभाषत ॥ ५९

रे रे ! राक्षसश्चर्याद्य चक्रेण शतनेमिना ।
हरिध्ये ते शिरः कायात् यथा पकफलं व्रमात् । ॥ ६०

इत्युक्ते देवराजेन वृषभो दण्डवद्भवि।
प्रणिषयह विश्वेशे अस्तुवद्राक्षसेश्वरः ॥ ६१

वृषभ-- ‘चक्रपाणे ! नमस्तुभ्यं चक्रस्य चरितं श्रुतम् ।
यचक्रेण प्रतप्तस्तु मुक्तिमेति न संशयः ॥ ६२

यचक्रेण पुरा राजा कीर्तिमान् कीर्तिमाप्तवान् ।
त्वचकेण हतो राजन् गच्छामि तव मन्दिरम् ' ॥ ६३

एवमुक्त्वा हरेः पादों पस्पशं वृषभासुरः ।
वरं ययाचे वृषभः ‘शैलो मदभिधोऽस्त्विति । । ६४

समालिङ्गध ‘ भवेदेव मित्युक्तो हरिणाऽथ सः ।
विसृष्टचकसछिलः त्यक्तवान् स्वकलेबरम् ॥ ६५

तस्माषभशैलोऽये कृते ख्यातिमुपेयिवान् । ।
जनकः-- ‘कथमङ्गनगैलेति त्रेतायां नाम मे वद ॥ ६६

त्रेतायुगेऽजनाचलनामनिष्पत्तिः
शतानन्दः-' पुरा। केसरिणः पत्नी बना कललोचना ।
अनपत्यदुःखेन मतङ्गमुनिमगमत् ॥ ६७

आनम्य मुनिशार्दूलं अनपयातिकर्शिता ।
उवाच वचनं नेत्रनीरसिक्तकलेभश' था ॥ ६८

अञ्जनाः- ‘अहो तापसशार्दूलाऽपुत्राय मम का गतिः ?।
एवमुक्तेऽञ्जनादेव्या मतको वाक्यमब्रवीत् ॥ ६९