पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२८१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२६५
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः


एवं पदसहस्राणि वर्षाणि विगतानि च ।
तस्मिन् कालेऽरत्रिन्दाक्षः प्रत्यक्षः समजायत ॥ ४७

शिलतयी भगवान् श्रीनिवासः सतां गति ।
तमालोक्य हृषीकेरो वृषभो दण्डवद्भवि ॥ ४८

पपात राजशार्दूल! स विसंज्ञामुपेयिवान् ।
मुहूर्त्तन्ते समुत्थाय प्रत्यभाषत करावम् ॥ ४९

वृषभः- 'केशवानत ! गोविन्दः श्रीनिवास ! सुरोत्तम!।
न च मोक्षे न च स्वर्गे पारमेष्ठघषदं हरे! ॥ ५०

न याचे जगतां नाथ! युद्धभिक्षां च देहि मे ।
दशावतारविभवे ऽस्ते विक्रमो हरे! ॥ ५१

अद्य ते सत्यमाधत्व विक्रमं पुरुषोत्तम!।
देवस्तद्भारतीं श्रुत्वा किञ्चिद्धास्यमुखो हरिः॥ ५२

उवाच वचनं तं हि राक्षसं युद्धदुर्मदम् ।
श्रुत्वा तदुक्तवान् कृष्णः ‘तथाऽस्त्वित्यरिमर्दनः ॥ ५३

तयोर्युद्धमभूत्तत्र वृषभश्रीनिवासयोः।
यकृतं श्रीनिवासेन तत्कृतं वृषभेण च ॥ ५४

तद्द्रुतमभूतत्र देवानां पश्यतामपि ।
तद्युद्धकौशलं दृष्ट्र भगवान् पर्यपूजयन् ॥ ५५

'भो राक्षसकुलोपन! पश्य मे पैौघं बलम्।
इत्युक्त्वा दर्शयामास गरुडं विकृताकृतिम् ॥ ५६

तत्रस्थं वासुदेवञ्च विश्वरूपिणमव्ययम् ।
सहस्रभुजसंयुक्तं सहस्रयुधभूषितम् ॥ ५७

तन्मायां राक्षसो दृष्टा स्वयश्च गरुडं हरिम् ।
दर्शयन् व्यञ्जयामास स्वमायां सुरमोहिनीम् ॥ ५८