पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
श्रीवेङ्कटाचलमाहात्म्यम्

तिस्रः कोट्योऽर्द्धकोटी च तीर्थानि भुवनत्रये ।
स्वस्वपापविमोक्षार्थं याचयिष्यन्ति मां शुभे ॥ ३०

तेषां पापविमोक्षार्थं त्वयि स्नानं ददाम्यहम् ।
"धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ॥ ३१

स्नानार्थमागतं तीर्थजालं प्रेष्यत्वमाप्नुयात्" ।
तीर्थाधिराज्ये तत्तीर्थजालं त्वामभिषेक्ष्यति' ॥ ३२

इति दत्त्वा वरं देवः तत्तीरे न्यवसत्प्रभुः ।
देवस्य पाचिका काचित् नाम्ना वकुलमालिका ॥ ३३

प्रसाद्य देवं पाकेन श्रिया सञ्चोदिता विभोः ।
तीर्थभूम्याधिपत्यञ्च लेभे परममुत्तमम् ॥ ३४

तत्रैव वासं देवस्य ययाचे सा पुनर्हरिम् ।
[१]
वाणीदेवी तीर्थरूपा भूमिरूपा च पालिका ॥ ३५

भोगपल्या जलनिधेः कृष्णवेण्या च या समा ।
इति सर्वं समाख्यातं देवसान्निध्यकारणम्' ॥ ३६

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये भगवतः
स्वामितीर्थतोरैकवासनिमित्तवर्णनं नाम
द्वितीयोऽध्यायः ।



  1. वाणीदेवीत्यादि । जलनिधेर्भोगपत्न्या कृष्णवेण्या यमुनया च या समा सा पाचिका वकुलमालिका भूमिरूप तीर्थभूम्याधिपत्यवरलाभेन तीर्थभूम्यभिमानितया तीर्थभूमिशरीरिणी । अत्र वकुलमालिकायास्तीर्थभूमिरूपतया स्वमिपुष्करिणीरूपेण परिणतया सरस्वत्या संगतत्ववर्णनं यमुनानदीतुल्यवर्णनञ्च सकलतीर्थाधिरोध......न्याः स्वामिपुष्करिणीतीर्थरूपेण परिणतायाः सरस्वत्याः यमुनान............स्तीति प्रतिपादनाय कृतमित्यवगम्यते ।