पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२७८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२६२
श्रीवेङ्कटाचलमाहात्म्यम्


एतावत्कालपर्यन्तं न दृष्टो दुःखसञ्चयः ।
अद्य दृष्टो वरारोहे ! त्वद्वयेगेन केवलम् ॥ १६

इति सञ्जन्य मनसि वारंवारं महीपतिः ।
चकार प्रेतकार्याणि पुत्राणां चैव शैशवात् ॥ १७

मतृहीनांस्ततो बालान् आलिङ्ग्याङ्के निधाय च ।।
'भोः पुत्र ! बालभावे तु मातृहीनश्च कर्शिताः ॥ १८

कथं पश्यामि नेत्राभ्यां मातृहीनांश्च बालकान् ।
‘ति चिन्तापरः सऽभूत् त्यक्तराज्योऽतिदुःखितः ॥ १९

त्यक्तान्नः त्यक्तभोगश्च त्यक्तनिद्रोऽतिर्फर्शितः।
तथा दुःखे पशान्यथै शतानन्दः पुरोहितः ॥ २०

सम्प्राप्तो दैवयोगेन यमदेवानुजो मुनिः ।
प्रापं पुरोहितं दृष्ट। राजा पूजामकल्पयत् ॥ २१

स पूजितो मुनिवरो निविष्टो मृगचर्मणि ।
ततः कालोचितां वार्ता कथयामास गौतमिम् ॥ २२

शतानन्दं प्रति जनककृनखशोकनिवृयुपायप्रार्थना

जनकः-“ शतानन्द ! महाप्राज्ञ ! का गतिः स्यादितो मम ! ।
वृद्धपादात्मनश्चैव पुत्राणाश्चैव शैशवात् ॥ २३

कन्यकारनबाहुल्यात् हतबन्धोर्महामुने!।
बहवः शत्रवः सति रावणेन्द्रजिददयः ॥ २४

तेभ्यो युद्धे कथं दास्ये ह्यसहये ऽजीिर्णवान् ।
दिवानक्तं समायाति रावणः केन हेतुना ॥ २५

न जाने मुनिवर्याहं प्रज्ञाचक्षुर्न विद्यते ।
निमित्तमेकं कथित द्वितीयं प्रवदामि ते । २६