पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४७
श्रीमदादित्यपुराणे तृतीयोऽध्यायः


श्रीमद्वेङ्कटनाथपादजनिता गङ्गा जगत्पावनी
यस्यापाङ्गनिरीक्षणं विधिभचेन्द्रार्कादिसर्वेष्टदम् ।
यन्नामस्मरणं महाघहरणं स्वीश्च मोक्षप्रदं
यपदाम्बुजयुग्मसेवनरतो ब्रह्मादिभिः पूज्यते ॥ ४५

दृष्ट्याद्ययन्तदूरं निगमनचयचेद्यममाहात्म्यपूर्ण
सर्वेशमादिमित्रं रविशशिनयनं पूर्णकारुण्यदेहम् ।
निवणं निष्प्रपवे निरवधिकसमनाथस¥रसर्तेः
गीर्वाणवैरजत्रे स्तुतिनतिनियमैकान्तभतैश्च पूयक्ष ॥ ४६

विरशङ्कर ! बहुकर्ण तब बहुचरित समस्तभुवनेषु ।
ज्ञापयसि भक्तिमद्य: फणिपतिशुकर्मीलनारदप्रमुवैः ॥ ४७

वेश्टेशमनुसृत्य य आस्ते तस्य भूरि सुभगं दशदिक्षु ।
ऐहिकं त्रिदिवसौख्यमतुल्यं मोक्षमाशु लभते गुणसाम्यम् ॥ ४८

श्रीनिधिं त्विह जहाति मदान्धो येऽथ दुःखमसमं दशदिक्षु ।
ऐहिकं भवति रौरवकुरभीपाकप्रवक्तमिमममुत्र ॥ ४९

विप्नं शुभदोधरं भक्तानां वशवर्तिनम्। ।
लोकपूज्यं रमानर्थ भजेऽहं प्रतिजन्मसु ॥ ५०

भौघानुमहर्थाय त्यक्तु वैकृष्टमुत्तमम् ।
धरण्यामवतीर्णाऽसि वरेण्यो वरदोऽर्चितः ॥ ५१

अप्यरुपमानं परवस्तु लोके नैपहार्य किल सत्यसन्ध !।
जनैरनेकैर्बहुजमयतैः आयाससध्यं बहुपापसञ्चयम् ॥ ५२

हस्यशेषं स्मृतिमात्रतस्त्वं वामनदृष्टिपथाद्यगोचरः ।
विक्षणस्यावरजङ्गमात्मकं वीक्षे वयविशारदं त्वाम् ॥ ५३

तव रूपाण्यनन्तानि चरित्राणि तथैव च ।
सरतां भक्तिपूर्वन्तु महाविभवदानि च ॥ ५४