पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२५१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२३५
श्रीमदादिव्यपुराणे द्वितीयोऽध्यायः


अष्टनेत्र्या दिवसानं पश्यन् सौन्दर्यमद्भुतम् ।
नालं नेनाष्टकमिति बहुरूपी तदाऽभवत् ॥ ७

कण्ठे च कौतुमे नाभौ वैकुण्ठादित्रिधामसु ।
सत्यलोके च मेर्वादौ सर्वत्र चतुरननः ॥ ८

ततः पदाब्जसौन्दर्यरसं चामृतनैच्यदम् ।
प्रीत्या पातुमहोरात्रं आसद्य मुखभोगिनः ॥ ९

तृष्ण। शान्तोIऽधुना नापि पादसैौन्दर्यमीदृशम् ।
शय्यासनातपत्रादिरूपी स्वत्पादसेवकः ॥ १०

शेषे बहुसहस्राक्षः सदन्तस्थो व्यचिन्तयत् ।
अस्सलवङ्गसौन्दर्यं विचित्रं सुमनोहरम्॥ ॥ ११

अदृष्टद्युतपूर्वञ्च महगाढं विक्षणम् ।
सुलक्षणश्च सन्दृश्यं जगन्मोहनमोहकम् ॥ १२

बहूनि मम नेत्राणि समीपे सर्वद। हरेः ।
चांसलेशप्रसादेन स्वेवं भयमभून्मम॥ ॥ १३

इति सम्भ्रमसंयुक्तः सर्वदाऽतिथियो हरेः ।
नेलैर्बहुपहतैश्च लक्ष्मीपतिपदम्बुजे ॥ १४

असमं चित्रसौन्दर्यं दृष्टदृष्टा पुनःपुनः।।
मह।नन्दग्बुधौ मग्नः एवं मेने फणी तदा । ॥ १५

‘वसाम्यहं सदैवात्र पादमूले च मत्पतेः ।
वैकुण्ठं वा न गच्छामि त्यका। विष्णुपदाम्बुजम् ॥ १६

यस्त्वानन्दो भवेन्नित्यं पादसौन्दर्यदर्शनात् ।
वैकुण्ठे ईदृशानन्दः कैवर्येऽपि न विधते ॥ १७

पातालमत्रं गन्तव्यं पादमूलं यतो हरेः।
न स्थास्यामि क्षणमपि यसौन्दर्यमृतं विना ॥ १८