पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीवेङ्कटाचलमाहात्म्यम्


व्यञ्जयन् कम्पयामास सर्वान् स्थावरजङ्गमान् ।
अथ ब्रह्मादिभिर्देवैः अनुनीतेऽपि मारुते ॥ ५३

अकृतोपरमे शेषः साम्ना विज्ञापितस्तु तैः ।
लघुर्भूत्वा क्वचित् किञ्चित् फणां संश्लथयन् स्थितः ॥ ४४

ततस्तद्विवरं वायुः महावेगो विवेश ह ।
ततः क्षणेनोचञ्लितः तूलराशिरिवाम्बरे ॥ ४५

प्रचलन् वर्त्म चोल्लङ्घ्य दूरं लक्षार्धयोजनम् ।
उत्तरे दक्षिणाम्भोधेः द्वात्रिंशद्योजनान्तरे ॥ ४६

पूर्वाम्भोधेः पश्चिमे तु पुण्ये स्वर्णमुखीतटे ।
पपात वेगतो वायोः शैलः शेषसमन्वितः ॥ ४७

सहस्रधा शीर्यमाणो बलेन बलशालिनः ।
ततस्तुष्टाव मरुतं मेरुः सुतहितेच्छया ॥ ४८

'त्राहि त्राहि जगत्प्राण ! पुत्रभिक्षां प्रयच्छ मे ।
अपराधो हि शेषस्य न च मे पुत्रहेतुकः' ॥ ४९

इति तेन स्तुतो वायुः ‘पालयामी'ति चाब्रवीत् ।
तं गिरिं स्स्वयमाविश्य तेन सार्थं पपात ह ॥ ५०

वायोरावेशनाच्चैनं प्राहुरञ्जनसंज्ञकम् ।
शेषो विशीर्णदेहस्तु तेन सार्थ पपात ह ॥ ५१

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये दिलीपदुर्वसस्संवादे


वायुशेषयोः परस्परं बलपरीक्षादिवर्णनं नाम


प्रथमोऽध्यायः ।