पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीब्रह्मपुराणे प्रथमोऽध्यायः

मेरुपुत्रो महापुण्यो जाम्बूमदनदीतटे ।
योजनत्रयविस्तीर्णः त्रिंशद्योजनमायतः ॥ ३१

अहं मेरुमवष्टभ्य बद्ध्वा तं कायरज्जुना ।
स्वास्यामि तं महाशैले वायुरुद्धरते यदि ॥ ३२

तदा मत्तोऽधिको वायुः प्रभो ! सत्यं न संशयः' ।
एवमुक्तो हृषीकेशः शेषेणात्यन्तगर्विणा ॥ ३३

वायुमुद्वीक्षयामास वायुर्ज्ञात्वेङ्गितं हरेः ।
'तथा कुर्वि'ति तं शेषं हरिणा प्रेरितोऽब्रवीत् ॥ ३४

ततः शेषो ययौ भूमिं तत्रापश्यद्गिरिं शुभम् ।
तप्तहाटकसङ्काशं रत्नसानुं मनोहरम् ॥ ३५

मेरोर्दक्षिणदेशे तु जाम्बूनदनदीतटे ।
मेरुपुत्रं महापुण्यं वेङ्कटाचलसंज्ञकम् ॥ ३६

मेरुवेङ्कटशैलेन्द्रौ अवष्टभ्य महारुषा ।
स्वकायरज्जुना बद्ध्वा शेषस्तस्थौ ज्वलन् रुषा ॥ ३७

सन्नद्धः सह सर्वाङ्गैः पश्चाद्वायुमुवाच ह ।
'यद्यस्ति ते बलं घोरं गिरिमुद्धर साम्प्रतम्' ॥ ३८

इत्युक्तो वायुरायातः स्पृशन् पादेन वेङ्कटम् ।
चिक्षेपाङ्गुष्ठतः शैलं दर्पेणानादरात्तदा ॥ ३९

अविचाल्यं यदा मेने शेषसंवेष्टितं गिरिम् ।
ततः प्रयेते बाहुभ्यां तं तोलयितुमादरात् ॥ ४०

न शशाक यदा वायुः बाहुभ्यामपि पीडयन् ।
तं चालयितुमीषद्वा भग्नदर्पस्तदाऽभवत् ॥ ४१

अकीर्तिशङ्का च ततो वायुर्ब्रह्माण्डपूरणः ।
आत्मीयामखिलां शक्तिं कम्पने शोषणे तथा ॥ ५२