पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१२
श्रीवेङ्कटाचलमाहात्म्यम्


तेषामापादयामास प्रमोदं मन्दमारुतः ।
कमलामोदसंवाही विचरन् गिरिसानुषु ।
शुकानां कोकिलानाञ्च तदा शुश्रविरे गिरः ॥ ५३

तत्र तत्र समासीनान् विस्तीर्णासु दृपसु ते ।
सिद्धानपश्यन् कृष्णस्य गायतो गुणवैभवम् ॥ ५४

अगस्त्यप्रमुखाः सर्वे परिक्रम्य मुनीश्वराः ।
स्वामिपुष्करिणीं दिव्यां दद्यः विमलोदकम् ॥ ५५

ततीरे विहितावासं अपश्यच्छङ्कभूपतिम् ।
चाअनकापलं कर्म सन्निवेश्य स्थितं हरौ॥ ५६

स तानालोक्य सहसा मुनीन्द्रान् संशितत्रतान् ।
यथोक्तमकरोत्पूजां प्रणमस्तुतिपूर्विकाम् ॥ ५७

आसीनास्तत्र ते सर्वे सम्भाव्यान्योऽन्यमुत्सुकाः ।
गोबिन्दकीर्तनपराः कृतार्थत्वं प्रपेदिरे ॥ ५८

इति श्रीस्कन्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाचल


प्रति शागस्याद्यागमनवर्णनं नाम


नवमोऽध्यायः ।



अथ वशमोऽध्यायः



अगस्त्यशब्दादितपस्तुष्टस्य भगवतः आविर्भावः

भरद्वाज -- तेषां हरौ जगन्नथे समावेशितचेतसाम् ।
दिनत्रयं गतं तत्र पूजास्तोत्रग्रामनाम् ॥ १

तृतीये दिवसे प्राप्ते ते सर्वे निद्रिता निशि ।
अन्ते चतुर्थयामस्य ददृशुः स्वममुत्तमम् ॥ २