पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीवेङ्कटाचलमाहात्म्यम्

बले ज्ञाने विरागे च विष्णुभक्तौ न मत्समः ।
साक्षाद्विष्णुप्रसादस्य पात्रभूतोऽस्मि सर्वदा ॥ २३

मर्यादयाऽवस्थातव्यं वक्तुं नार्हसि चाधिकम् ।
इत्युक्तस्तेन संक्रुद्धः प्रत्युवाच​ बिलेशयः ॥ २४

वायुशेषाभ्यां कृता परस्परब​लपरीक्षा

शेषः--

'किं जल्पितेन बहुना परीक्षाऽत्र विधीयताम् ।
आवाभ्यां बलशालिभ्यां दृश्यतेऽत्र बलाबलम्' ॥ २५

इत्युक्तस्तेन फणिना मातरिश्वाऽब्रवीत्ततः ।

वायुः---
'आवयोः स्यात् कथं चाऽत्र परीक्षा पौरुषे गतौ ॥ २६

तद्वदस्व​ महाबाहो ! येन ते निश्चयो भवेत्' ।
एवं वृत्ते विवादे तु तत्रागाद्धरिरीश्वरः ॥ २७

"किमेत"दिति तौ पृष्ट्वा शेषेणोक्तोऽतिविस्तरात् ।
प्राहेद्वृत्तं तदा शेषं भावि कार्यं स चिन्तयन् ॥ २८

श्रीभगवान्---
'लोकान्तरात्मा बलदेवता यः
प्राणो ममापि ह्य​धिको मतोऽयम् ।
स्वं लोकभर्तेति महान् मदस्ते
तवापि वै कूर्मवरो हि वोढा' ॥ २९

तच्छ्रुत्वा प्राह देवेशं शेषस्तस्याशयनुगः ।

शेषः---
'भगवन् ! मम वायोश्च पश्याद्य बलपौरुषे ।
योऽसौ मत्पालितः शैलो भारेण महता युतः ॥ ३०