पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९७
श्रीस्कान्दपुराणे (तृतीयभागे) सप्तमोऽध्यायः


तपुण्येऽस्म्यहं फर्थ ! सर्वभूतपतेर्हरेः ।
प्रवित्राणि चरित्राणि सोप्यन्ते यन्मयाऽधुना ॥ २३

पुरा भगीरथीतीरे जनकाय महात्मने ।
कतुदीक्षाप्रसक्ताय विशुद्धज्ञानशालिने ॥ २४

वामदेवेन कथितां कथां पापप्रणाशिनी ।।
कथयिष्यामि ते पर्थ ! विष्णुकीजेनपावनीम् ।। २५

सर्वेषामेव भूतानां आद्यो नारायणः प्रभुः।
जगन्मयो जगत्कर्ता चिद्रूपो निरञ्जनः ॥ २६

सहस्रशीर्षा भगवान् सहस्राक्षः सहस्रपात् ।
यस्य भासा जगदिदं विभाति सचराचरम् ॥ २७

तस्मस्परसं तेजः तस्मात्परतरं तपः ।
तस्मात्परतरं ज्ञानं योगस्तस्मात्परो न च ॥ २८

विद्य तस्मादपि पश नाति पार्थ! नरर्षभ !
सर्वेष्वपि च भूतेषु सदा सन्निहितः प्रभुः ॥। २९

सर्वाण्यपि च भूतानि तस्मिन्नेबासते सुखम् ।
स एव यज्ञो यज्च च साधने सुक्खुवादिकम् ॥ ३०

फल फलप्रदाता चे तत्सम्प्राप्य तस्तथा ।
बड़े प्रणीते पशुना प्रोक्षितेन प्रजुह्वति ॥ ३१

ये तं प्रयान्ति ते यान्ति गतिं तत्प्रतिपादिताम् ।
कर्मबन्धं परां कृत्या ज्ञानाग्नौ सम्प्रवर्तिते ॥ ३२

ये जुहते तमुद्दिश्य ते तत्सायुज्यभागिनः ।
हरिः सदाशिवो ब्रह्मा महेन्द्रः परमः स्वराट् ॥ ३३

सर्वेश्वरस्य तस्यैते पर्यायाः परिकीर्तिताः ।
समाहितोऽनुसन्धते य इदं परमात्मनः ॥ ३४