पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीब्रह्मपुराणे प्रथमोऽध्यायः

ब्रह्मानन्दवने रेमे रमयाऽन्तःपुरे सह ।
समादिदेश च तदा भगवान् रमया युतः ॥ १३

शेषमन्तःपुरद्वारे भाविकृत्यच्च​ चिन्तयन् ।
तदाशयानुगः शेषः सर्वलोकधुरन्धरः ॥ १४

तस्याय​न्तःपुरद्वारे तस्य चानुमते तदा ।
स्थापयामास चात्मानं बलिष्ठं सर्वतोऽधिकम् ॥ १५

एतस्मिन्नन्तरे वायुः दुग्धाब्धिशयनं ययौ ।
तदा वायुं समारौत्सीत् फणीन्द्रो बलदैवतम् ॥ १६ ॥

'न च ते समयश्चात्र प्राप्तुमन्तपुरं हरेः ।
नात्मज्ञो हि भवान् वायो! कदा तेऽभूद्ग​तिः पुरा ।
इतःपरमतीत्य त्रिकक्ष्या अन्तःपुरे गृहे' ॥ १७

इति तद्व​चनं श्रुत्वा वायुस्तं प्रत्यवोचत ।

वायुः---
'नात्मज्ञोऽसि त्वमेवात्र त्वयोक्तमविचारतः' ॥ १८

शेषः----

'बहिरन्तश्च यो नित्यं अहं नाथसमीपगः ।
त्वं भृत्यो मीदुषोर्विण्णोः नान्तरङ्गो न मत्समः ॥ १९

तिष्ठ तावद्दरेद्वरि' इत्यहीशो वायुमब्रवीत् ।
तच्छूत्वा प्रहसन् वायुः वायुभक्षमथाब्रवीत् ॥ २०

वायुः-
'दासीदासजना ये तु ये चान्ये परिचारकाः ।
तान् वदन्ति तु मित्राणि न तेऽर्हन्त्यासनं विभोः ॥ २१

बिडालोऽन्तःस्थितो वापि ब​हिष्ठेभसमो न हि ।
मां त्वं जानासि नाध्यक्षं प्राणिनां प्राणमीश्वरम् ॥ २२