पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८६
श्रीवेङ्कटाचलमाहात्म्यम्



निःक्षिसमथि जन्तूनां सुवर्णमुखरी जले ।
सोपानतां समायाति ब्रह्मचाधिरोहणे ॥ २७

सरतः स्वर्णमुखी यत्र कुत्रापि मानवाः।
तोयान्तरेषु नवऽपि लभन्ते फळमुत्तमम् ॥ २८

तावदेवाभिभूयन्ते नरः पातककोटिभि:।
सुवर्णमुखरीस्नानं यावतलभ्यते शुभम् ॥ २९

दिव्यान्तरिक्षभौमानि तीर्थानि निजसिग्नये ।
स्मरन्यहरहः प्रातः सुवर्णमुखरीं नदीम् ॥ ३०

अगम्याचलसम्भूता दक्षिणोदधिगामिनी।
पापानि स्वर्णमुखरी स्मरणादेव नशयेत् ॥ ३१

सुवर्णमुखरीत्रानलोलुपेनान्तरात्मना।
बाञ्छनित मर्यतामेत्र देवाः शक्रपुरोगमाः ॥ ३२

सुवर्णमुखरीतोयपुष्टसस्यान्नभोजिनः ।
न लिप्यन्ते महापपैः दुभंजनशतोद्भवैः ॥ ३३

अपि निष्कमितं पीतं सुवर्णमुखरीजलम् ।
नाशयेदद्रितुल्यानि चाशु पापान देहिनाम् ॥ ३४

प्राप्याऽपि मानुषं जन्म मुवर्णमुखर्जले ।
ये वा सनं न कुर्वन्ति तेषं जन्म निरर्थकम् ॥ ३५

सुवर्णमुखरीमानं यदेकं विधिना कृतम् ।
जाह्नवीस्नानकोटीनां समं भवति पर्वसु ॥ ३६

गोविन्द इव देवेषु नक्षत्रेष्वत्र चन्द्रमाः।
नरेबिव महीपालो भूरुहेष्वि कल्पकः ॥ ३७

महाभूतेष्विव वियत् मायेवाखियशक्तिषु ।
गायत्रीव च मन्त्रेषु वनं देवायुधेष्विव ॥ ३८