पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीवेङ्कटाचलमाहात्म्यम्

श्रीवेङ्कटाद्रिसंज्ञस्य क्षेत्रस्यनुत्तमस्य च ।
वेङ्क​टेश्वरदेवोऽसौ यत्र सन्निहितो हरिः॥ ४

दिलीपं प्रति दुर्वाससा प्रोक्तं श्रीवेङ्कटाचलवैभवम्

तस्यागतं वैभवञ्च​ तीर्थसङ्ख्यां तथैव च ।
येन प्रथा कृता लोके तदाचक्ष्व कृपा यदि' ॥ ५

दुर्वासाः -
'शृणु राजन्! प्रव​क्ष्यामि वेङ्कटाचलवैभवम् ।
तस्यागतिं प्रवक्ष्यामि देवस्यापि महात्मनः ॥ ६
मेरोः पुत्रो महाशैलो जाम्बूनदनदीतटे ।
योजनत्रयविस्तीर्णः त्रिंशद्योजनमायतः ॥ ७
"वेङ्क​टे"ति कृतं नम पित्रा यस्य महात्मनः ।
अमृतस्येन्दिरायाश्च यतो विस्तारकारकः ॥ ८
जीवानां भारते वर्षे ततोऽयं गुणनामकः ।
निर्दोषविष्णोरयनं नारायणमिमं विदुः ॥ ९
वृष​स्य भरणात्पोषाद् वृषभं चापि तं विदुः ।
प्रसवादञ्जनादेव्या विदुरञ्ज​नसंज्ञकम् ।
सशेषागमनाच्चापि शेषाद्रिं प्राहुरुतमाः' ॥ १०

दिलीपः --
'सशेषागमनं तस्य कुत एतन्महाविभो ।
तदाचक्ष्व महाप्राज्ञ ! श्रौतुं कौतूहलं हि मे" ॥ ११

वायुशेषयोः क्षीराब्धिप्रवृत्तकलहोपोद्वातादिवर्णनम् ।

दुर्वासाः -
'अनन्तशयनः श्रीमान् कदाचित् क्षीरसागरे ।
ल​क्ष्मीविलासनिर्विण्णो भगवान्! मधुसूदनः ॥ १२