‘सम्प्रापिता केन भुवः प्रभूता कमान्महीध्रादधिकप्रभाण।
इति प्रभावं परिपृच्छय नद्यः श्रोतुं मुनीन्द्रमनिरस्य जजे ॥ ५०
इति श्रीस्कन्दपुराणे तीर्थखण्डे श्रीवेङ्कचमाहार्ये
(तृतीयभागे) सुवर्णमुखरीमाहल्ये भरद्वाजाश्रमवर्णनं
नाम द्वितीयोऽध्यायः।
अथ तृतीयोऽध्यायः।
सुपर्णमुखरीप्रभवशुश्रूषया भाद्वा प्रत्यर्जुनप्रश्नः
श्रीसूतः--
कृतसायन्तनविधिं हुताशनसमद्युतिम् ।
सुखासीनं मुनिपतिं प्रणम्य भरतर्षभः ॥ १
तदीयशीतलामोदसुधापूरानुमोदितः ।
गम्भीरं प्रश्नयोपेतं इदं वचनमब्रवीत् ॥ २
अर्जुनः--
'मुनिपुङ्गव! लोकेऽस्मिन् धभ्य एकोऽहमेव हि।
पुत्राबिशेषं भवता यदेवं सम्यगादृतः ॥ ३
भवदादरसन्नातकौतुकं मम मानसम् ।
भवद्वाक्यामृतं दिव्यं पत्रं त्वरयतीव माम् ॥ ४
कमाच्छैलादिये जाता केनऽनीता महानदी ।
किं पुण्यं स्नानदानाचैः कृतैतत्रोपलभ्यते ॥ ५
अस्याः प्रभावं प्रभवं प्रहस्य मम सन्मुने ।
वक्तुमर्हसि काय हि भक्तानुग्रह एवं ते'॥ ६