पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरस्तु

श्री श्रीनिवासपरब्रह्मणे नमः

श्रियै पद्मावत्यै नमः

श्रीमते विष्वक्सेनाय नमः

श्रीवेङ्कटाचलमाहात्म्यम्


द्वितीयो भागः

( श्रीब्रह्मपुराणान्तर्गतम् )


श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

हरिः ॐ

प्रथमोऽध्यायः


दुर्वास​सं प्रति दिलीपकृतप्रश्नः

श्रीसृतः-
राजा दुर्वाससं पृष्ठा दिलीपो गृहमागतम् ।
श्रुत्वा श्रीरङ्गमाहात्म्यं श्रीमुष्णस्य च वैभवम् ॥ १
वेङ्कटाचलमाहात्म्यमथ पप्रच्छ सादरम् ।
दिलीपः-
'निर्दिश्य देवदेवस्य स्वयंव्यक्ताष्टवैभवम् ॥ २
श्रीरङ्गवैभवं तत्र श्रीमुष्णस्य च वैभवम् ।
उक्तं त्वया दयासिन्धो! साम्प्रतं वद वैभवम् ॥ ३

पा. 1.