पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७२
श्रीवेङ्कटाचलमाहात्म्यम्


सौगन्धिकोपलम्भोजकैवौघविराजितैः ।
सरोनिरमृनस्यन्दमधुरस्फरवरिभिः ॥ २९

समापादतलमाकं कौतुकैकनिकेतनम् ।।
सिंहदतावस्याप्रतरक्षुरुरुक्षुभिः ॥ ३०

मृतैरन्यैः समाकीर्णं अन्योऽन्यहितकारिभिः ।
जिनचैत्ररथेश्चनं अधरीकृतनन्दनम् ॥ ३१

अतिश्वमनसोदारं परमानन्दकरणम् ।
शिवागमानां दिव्यानां अर्थज्ञातमनुत्तमम् ॥ ३२

प्रकाशयन्ति शाबानां यत्र मञ्जुगरः शुकः ।
यस्मिन् हुताशनदारधूमश्यामलंतं नभः ॥ ३३

अकालमरुञ्जन्ति आनन शिखण्डिनम्
यस्मिन् विहारश्रान सिंहानां स्वेच्छय। गताः ॥ ३४

निर्वापयन्ति गात्राणि करिणः करशीकरैः ।
तदाश्रमपद पश्यन् विस्मयाक्रान्तमानसः ॥ ३५

प्रभावं पाण्डअनघः प्रशशम तपस्वनम् ।
निवर्यं तत्र तत्रैव सकलाननुजीविनः ॥ ३६

अर्जुनकृतभरद्वाजसंयक्रमः

मित्रेविंप्रवरैः सार्ध प्रविवेश तमाश्रमम् ।
अप्रै ददर्श कौन्तेयः स्फुरत्पावकतेजसम्॥ ३७

भरद्वाजं मुनिवैरैः अनेकैः परिवारितम् ।
भस्मानुलिप्तसर्वानं मृगचमनीयकम् ॥ ३८

नववारिदसंवीतं कैलासमिव भास्वरम् ।
जटाभिर्लम्बमानाभिः भावसं स्वर्णकान्तिभिः ॥ ३९