पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१७६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१६°
श्रीवेङ्कटाचलमाहात्म्यम्



गृह्मासि चेत्सुतं विप्र! महापातकिनं वृथा।
त्वद्भार्यामस्य भार्यात्र त्वाञ्च पुत्रमिमं द्विज! ॥ ५७

भक्षयिष्यामि वंशश्च तस्मान्मुञ्च दुरात्मकम् ।
इमं त्यजसि चेपुत्रं युष्मान् मुञ्चामि साम्प्रतम् ॥ ५८

नैकस्यार्थे कुलं हन्तुं अर्हसि वं महामते ।।
इत्युक्तः स तया तत्र पझनाभोऽब्रवीच्च ताम् ॥ ५९

पद्मनाभः--

‘बाधते मां सुतस्नेहः कथं पुत्रं परित्यजे!!
ब्रह्महत्या तदाक्ष्ये पद्मनाभ तमब्रवीत् ॥ ६०

ब्रह्महत्याः --

'पुत्रोऽयं पतिनोऽभूते वर्णाश्रमबहिष्कृतः ।
पुत्रेऽसिन् मा कुरु स्नेहं निन्दिते तस्य दर्शनम् ॥ ६१

इत्युक्तो ब्रह्महत्या सा पझनाभस्य पश्यतः ।
हस्तेन प्रजह्राय सुते केशवनामकम् ॥ ६२

रुरोद 'तात तातेति जनकं प्रब्रुवन् मुहुः ।
रुरुदुजेनको माता भार्या तस्य दुरात्मनः ॥ ६३

तस्मिन् काले महाभागो भरद्वाजो महामुनिः ।
दिष्ठया समाययौ योगी शौनकाद्य! महैौजसः! ॥ ६४

पझनाभोऽथ तं दृष्टा भरद्वाजं महामुनिम् ।
स्तुत्वा प्रणम्य शरण यथाचे पुत्रकारणात् ॥६५

पञ्चनभं प्रति भरद्वाजकथित ब्रह्महत्याविमुतयुपायः



भरद्वाज महाभाग! साक्षाद्विष्वंशको मवान् ।
त्वद्दर्शनमपुष्यानां भविता न कदाचन। ॥ ६६