पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१७५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१५९
श्रीस्कान्दपुराणे द्वितीयभागे सप्तत्रिंशोऽध्यायः

 
एकेन चषकेणासौ तया सह सुरां पपौ ।
स कदाचित् किरातैस्तु द्रव्यं हतुं ययौ द्विजः ॥ ५७

विप्रस्य कस्यचिद्देहे सोऽपि कैतवेषधृक् ।।
केशवो विप्रबन्धुवै साहसी खड्गहस्तवान् ।। ४८

तद्गृहस्वामिनं विप्रं कृत्वा खड्गेन साहसात् ।
समादाय बहु द्रव्यं वेश्यागारं विवेश है ॥ ४९

तं यान्तमनुयाति स ब्रश्नहत्या भयङ्करी ।
नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ॥ ५०

गर्जन्ती साट्टहासं सा ऊपयन्ती च रोदसी ।
अनुद्रुततया विप्रो बभ्राम जगतीतले ॥ ५१

एवं अमन् धरां सर्वा विप्रवधूर्द्धरात्मवान् ।
स्वभ्रात्रं प्रययौ भीत्या शौनकाचाः! महौजसः ! ॥ ५२

अनुद्रुततया भीतः प्रययौ स्वनिकेतनम्।
प्रशइत्याऽप्यनुह्य तेन साकं गृहं ययौ ॥ ५३

जनकं ‘रक्ष रक्षे ति केशवः शरणं ययौ ।
मा भैषीरिति स प्रोच्य पिता रक्षितुमुद्यतः ।
रेने ब्रम्हत्या सा जनकं प्रत्यभाषत ॥ ५४

खसुतरक्षणोद्युक्ते पद्मनाभे ब्रह्महत्योक्तिः

इहत्यः

मैनं त्वं प्रतिगृष्ीष्व पद्मनाभ! द्विजोत्तम!।
भयं सुरापी स्तेयी च ब्रह्महा चातिपातकी ॥ ५५

मातृद्रोही पितृद्रोही भार्यात्यागी च दुष्टधीः !
गणिकासक्तचित्तश्च बेनं मुख दुरास्मकम् ॥ ५६