पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५३
श्रीस्कान्दपुराणे सप्तदशोऽध्यायः


ये कथामनुमोदन्ते कीर्यमानां नरोत्तमाः ।
अधृष्पकोऽपि ते यान्ति शाश्वतं पदमव्ययम् ॥ ४८

ये अवयन्ति मनुजाः पुण्यां पौराणिक कथाम् ।
कल्पकोटिशतं साग्रे तिष्ठन्ति ब्रह्मणः पदे ॥ ४९

आसनार्थं प्रयच्छन्ति पुराणज्ञस्य ये नराः।
कम्बलाजिनवासांसि तथा मञ्चकमेव वा ॥ ५०

स्वर्गलोकं समासाद्य भुज़ मेगन् यथेप्सितान् ।
स्थित्वा ब्रह्मादिलोकेषु पदं यान्ति निशमयम् ॥ ५१

पुराणस्य प्रयच्छन्ति ये च सूत्रं नवं वरम् ।
भोगिनो ज्ञानसम्पन्नाः ते भवन्ति भवे भवे ॥ ५२

यं महापातकैर्युक्ता हृषपातकिनश्च ये।
पुराणश्रवणादेव ते यान्ति परमं पदम् ॥ ५३

वंदयद्रस्तु माहास्यं श्रुत्वा ते ऋषयस्ततः ।
व्यासप्रसादसम्पन्न व्रत फैराणिकोत्तमम् ॥ ५४

पूजयित्वा यथान्यायं प्रहर्षमतुलं गताः ॥ ५५

इति श्रीस्कान्दपुराणे श्रीवेङ्कटॉचमाहास्ये सर्वतीर्थमहिमोपसंहार


पूर्वकपुराणश्रवणप्रक्रियाद्यनुवर्णनं नाम


सप्तदशोऽध्यायः ।।



प्रथमो भागः समतमगगात् ।



॥ हरिः ॐ तत्सत् ॥



॥ श्रीरस्त ।